SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७] गाथा: 'सि अरविन्द-पद्मं यथा पुष्पज्येष्ठमेवमिदं व्रतानां, 'गोसीसं चेत्ति गोशीर्षाभिधानं चन्दनं यथा चन्दनानां 'हिमवंतं चेव'त्ति हिमवानिय औषधीनां, यथा हिमवान्-गिरिविशेषः औषधीनां-अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मचर्यमौषधीनां-आमशोषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमिति भावा, 'सीतोदा चेव'त्ति शीतोदेव निम्नगाना-नदीनां यथा नदीनां शीतोदा प्रवरा तथेदं बतानामित्यर्थः, उदधिषु यथा खयम्भूरमण:-अन्तिमसमुद्रो महत्त्वे प्रवरः एवमिदं व्रतानां प्रवरमिति 'रुयगवरे चेच मंडलिए पव्वयाण पवरे'त्ति यथा माण्डलिकपर्वताना-मानुषोत्तरकुण्डलवररुचकवराभिधानानां मध्ये रुच-18 कवर:-त्रयोदशदीपवर्ती प्रवरः एवमिदं व्रतानां प्रवरमिति भावः, तथा ऐरावण इव-शक्रगजो यथा कुञ्जराणां प्रवरा एवमिदं बतानां, सिंहो वा यथा मृगाणां-आटव्यपशूनां प्रवर:-प्रधानः एवमिदं व्रतानां 'पवगाणं चेय'त्ति प्रबकाणामिव-प्रक्रमात् सुपर्णकुमाराणां यथा वेणुदेवः प्रवर तथा व्रतानां ब्रह्मचर्यमिति प्रकृतं, तथा धरणो यथा पन्नगेन्द्राणां-भुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोक:-पश्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् तदिन्द्रस्यातिशुभपरिणामत्वात् प्रवरः एवमिदं व्रतानां, सभासु च-प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं बतानामिति, स्थितिषु-आयुष्केषु मध्ये लवसप्तमा-अनुत्तरसुरभवस्थितिः चाशब्दो यथाश दीप अनुक्रम [३९-४३] ~470~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy