________________
आगम
(१०)
प्रत
सूत्रांक
[२७]
गाथा:
दीप
अनुक्रम [३९-४३]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [२],
अध्ययनं [४]
मूलं [२७] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Ecation In
रागद्वेषौ ॥ १ ॥ ] ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियम निष्प्रकम्पमिति भवति, तपःसंयमयोर्मूलदलिकं मूलदलं आदिभूतद्रव्यं तस्य 'नेम'ति निर्भ-सदृशं यत्तत्तथा, पञ्चानां महाव्रतानां मध्ये सुनु-अव्यन्तं रक्षणं - पालनं यस्य तत्तथा समितिभिः ईर्या समित्यादिभिर्गुतिभिः- मनोगुत्यादिभिर्व सत्यादिभिर्वा नवभिर्ब्रह्मचर्य गुप्तिभिर्युक्तं गुप्तं वा यत्तसथा, ध्यानवरमेव प्रधानध्यानमेव कपाटं सुकृतं सुविरचितं रक्षणार्थ यस्य अध्यात्मैव च सद्भावनारूढं चितमेव 'दिण्णो'त्ति दत्तो ध्यानकपाटदृढीकरणार्थे परिघः-अर्गला रक्षणार्थमेव यस्य तत्तथा, सन्नद्ध इव बद्ध हव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशकं दर्शकं यत्तत्तथा तच्च, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह-- 'देवदाणवर्गधन्वा जक्खरक्वस्सकिंनरा । बंभचारिं नर्मसंति दुकरं जं करिंति ते ॥ १ ॥ [ देवदानवगन्धर्वा यक्षराक्षसकिन्नराः । ब्रह्मचारिणं नमस्यन्ति यद् दुष्करं तत्ते कुर्वन्ति ॥ १ ॥ ] 'पउमसरतलागपालिभूयं 'ति सरः खतःसम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं- धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथा महाशकटारका इव महाशकटारकाः - क्षान्त्यादिगुणास्तेषां तुम्बभूतं-आधारसामर्थ्यानाभिकल्पं यत्तत्तथा, महाविदपवृक्ष इव-अतिविस्तारभूरुह इव महाविदपवृक्षः- आश्रितानां परमोपकारत्वसाधर्म्यामः तस्य स्कन्धभूतं तस्मिन् सति सर्वस्य धर्मशाखिन उपपद्यमानत्वेन नालकरूपं यत्तत्तथा 'म
For Parts Only
~ 468~