________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
"- अगसूत्र मला तिः
प्रत सत्रांक
[२७]
-%%%
गाथा:
Pषात् सकाशात् महत्-गुरुकं तेजखि-प्रभावत् यत्तत्तथा, यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च
एवं व्रतानामिदमिति भावः, आह च-"व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् । तजन्यपुण्यसम्भारसंयोगाद् गुरुरुच्यते ॥१॥ तत्रान्तरीयैरप्युक्तं-"एकतश्चतुरो वेदाः, ब्रह्मचर्य च एकतः । एकतः सर्वपापानि, मद्यं मांसं च एकतः॥१॥"प्रशस्त-प्रशस्यं गम्भीरं-अतुच्छं स्तिमितं-स्थिरं मध्यं देहिनोऽन्तःकरणं यस्मिन् सति तत्तथा, आर्जवैः-ऋजुतोपेतैः साधुजनैराचरित-आसेवितं मोक्षस्य च मार्ग इव मार्गों यत्तत्तथा, वाचनान्तरे प्रशस्तैः-प्रशस्यैः गम्भीरैः-अलक्ष्यदैन्यादिविकारैः स्तिमितैः-कायचापलादिरहितैः मध्यस्थैः-रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा-रागादिदोषरहितत्वेन निर्मला या सिद्धिा-कृतकृत्यता सैव गम्यमानत्वाद् गतिर्विशुद्धसिद्धिगतिः-जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनभवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाद्यभावात् सुखः सुखखरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायाणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत् तं करोतीत्येवं|शीलं यत्तत्तधा, मकारस्त्विह पाठे आगमिका, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाघहेतुत्वादव्यावा अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्यं च सुखहेतुत्वाच्छिवहेतुत्वाच सुखशिवं अचल नहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः-मुनिप्रधानः संरक्षितं
AR-54-
दीप अनुक्रम [३९-४३]
4-964-64-52-%-*
धारा
~466~