________________
आगम
(१०)
प्रत
सूत्रांक
[२१-२३]
गाथा:
दीप
अनुक्रम [३०-३५ ]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः)
श्रुतस्कन्धः [२], ----
अध्ययनं [१]
मूलं [२१-२३] + गाथाः
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
पदेशकर्मक्षयोपशमादि बाह्याभ्यन्तरं कारणमस्याः, प्रमत्तयोगात् प्राणव्यपरोपणलक्षणहिंसाप्रतिपक्षः स्वरूपं स्वर्गापवर्गप्राप्तिलक्षणं च कार्यमिति, तथा अवधिजिना - विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता-ज्ञपरिज्ञया बुद्धा प्रत्याख्यानपरिज्ञया च सेविता, ऋज्वी - मनोमात्रग्राहिणी "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणति ॥ १ ॥ "त्ति [ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानं । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥ १ ॥ ] वचनात् मतिः- मनःपर्यायज्ञानविशेषो येषां ते ऋजुमतयस्तैरपि दृष्टा- अवलोकिता विपुलमतयो मनोविशेषग्राहिमनः पर्यायज्ञानिनः, उक्तं च – “विडलं वत्थुविसेसणमाणं तग्गाहिणी मई बिउला । चिंतियमणुसरह घढं पसंगओ पज्जवसएहिं ॥ १ ॥” [विपुलं वस्तुविशेषणमानं तद्राहिणी मतिर्विपुला । चिन्तितमनुसरति घटं प्रसङ्गतः पर्यवशतैः ॥ १ ॥ ] तैरपि विदिताज्ञाता पूर्वधरैरधीता श्रुतनिबद्धा सती पठिता, 'वेडब्बीहिं पइन्न'त्ति विकुर्विभिः वैक्रियकारिभिः प्रतीर्णा-निस्तीर्णा आजन्म पालितेत्यर्थः, 'आभिणिवोहियणाणीही त्यादि 'समणुचिन्ने' त्येतदन्तं सुगमं, नवरं 'आमोसहिपत्तेहिंति आमर्श:- संस्पर्शः स एवौषधिरिवौषधिः- सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां प्राप्ता ये ते तथा तैः एवमुत्तरत्रापि, नवरं खेलो- निष्ठीवनं जलः-शरीरमलः 'विप्पोसहि'त्ति विपुषो-मूत्रपुरीषावयवाः अथवा वित्ति-वि विष्ठा पत्ति-प्रभ्रवणं मूत्रं, शेषं तथैव, 'सव्वोसहि'त्ति सर्व एवानन्तरोदिता आमर्शादयोऽन्ये च बहव औषधयः सर्वोषधयः, बीजकल्पा बुद्धिर्येषां ते बीजबुद्धयः- अर्थमाश्रमवाप्य
Education Internation
For Parts Only
~410~