________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ------------------ अध्ययनं [५] ------------------ मूलं [१९-२०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१९-२०]
गाथा:
प्राप्यं चित्रादि कलाश्च-द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणित-1 प्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान् , आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाच्चतुःषष्टिमहिलागुणा भवन्तीति, गीतनृत्यादयो वा खीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांश्च किंविधान् ?-रतिजननानिति प्रतीतं, तथा 'सिप्पसेवं'ति शिल्पेन सेवा-वृत्त्य|र्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा 'असिमसिकिसिवाणिज्जति
असित्ति खड्गाभ्यास 'मसित्ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि-क्षेत्रकर्षणकर्म वाणिज्य-वणिग्व्यवहार तथा व्यवहारं-विवादच्छेदनं 'अत्थसत्थईसत्थच्छरुप्पगयंति अर्थशास्त्रं-अर्थोपायप्रतिपादनं शास्त्रं राज-18 नीत्यादि ईसत्य'ति इशाख धनुर्वेदं सरूपगतं-क्षुरिकादिमुष्टिग्रहणोपायजातं विविधांच योगयोजनानबहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीनं, तथा अन्येषु एवमादिकेषु-एवंप्रकारेषु । बहुषु कारणशतेषु-परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु प्रवर्त्तमाना इति गम्यं, यावजीवं-आजन्म 'नडिजए'त्ति बहुवचनार्थत्वादेकवचनस्य नव्यन्ते-बिनव्यन्ते, तथा सञ्चिन्वन्ति अबुद्धयो मन्दबुद्धयो वा दुष्टबुद्धियुक्ताः परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चार्थाय कुर्वन्ति प्राणानां-जीवानां वधकरणं-हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीक-मृषावादः निकृतिः-अत्यन्तादरकरणेन परवश्वमा सातिसम्प्रयोगो-विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षनमोत्पादनं 'परदब्वाभिज्झ'त्ति परधनलोभं ।
दीप अनुक्रम [२३-२९)
mational
~394