SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१९-२०] गाथाः दीप अनुक्रम [२३-२९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्तिः) -------- अध्ययनं [ ५ ] मूलं [१९-२०] + गाथा: श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः पर्वतेषु कुण्डले - जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वर्त्तिनि कुण्डलाकारपर्वते रुचकवरे - जम्बूद्वीपात्रयोदशरुचकवराभिधान द्वीपान्तर्वर्त्तिनि मण्डलाकारपर्वते तथा मानुषोत्तरे मनुष्यक्षेत्रावारके मण्डलाकारपर्वते कालोदधौ-द्वितीयसमुद्रे 'लवण'न्ति लवणसमुद्रे 'सलिल'त्ति सलिलासु गङ्गादिमहानदीषु हृदपतिषु नदप्रधानेषु पद्ममहापद्मादिषु महाहदेषु रतिकरेषु-नन्दीश्वराभिधानाष्टमद्वीपचक्रवालविदिचतुष्टयव्यवस्थितेषु चतुर्षु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु-नन्दीश्वरचक्रवालमध्यवर्त्तिषु पर्वतेषु दधिमुखेषु अञ्जनकचतुष्टयपार्श्ववर्त्तिपुष्करिणीषोडशमध्यभागवर्त्तिषु षोडशखेव पर्वतेषु अवपाताः येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताच येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काञ्चनेषु- उत्तरकुरुमध्ये देवकुरुमध्ये च प्रत्येकं पञ्चानां महाहदानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरिमाणेषु काश्चनमयपर्वतेषु 'चित्तविचित'त्ति निषेधाभिधानवपंधरप्रत्यासन्नयोः शीतोदाभिधानमहानद्युभयतदवर्त्तिनोचित्रविचित्रकूटाभिधानयोः पर्वतयोः 'जमगवर 'ति नीलबद्वर्षधरप्रत्यासन्नयोः शीताभिधानमहानद्युभयतटवर्त्तिनोर्थमकवराभिधानपूर्वतयोः शिखरेषु समुद्रमध्यवर्त्तिगोस्तूपादिपर्वतेषु कटेषु च नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्तिमिति प्रक्रमः, तथा 'वक्खार अकम्मभूमीसु'त्ति वक्षस्काराः - चित्रकूटादयो विजयविभागकारिणः अकर्म्मभूमयः- हैमवतादिकभोगभूमयः तासु ये वर्त्तन्त इति गम्यते, तथा सुविभक्तभागा देशा- जनपदा यासु Education Internation For Par at Use Only ~392~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy