________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्धः [१], ----------------------- अध्य यन [४] ----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%256456
प्रत सुत्रांक [१५]
दीप
तथा, कपोतस्येव-पक्षिविशेषस्येव परिणाम:-आहारपरिणतियेषां ते तथा, कपोतानां हि पाषाणा अपि जीर्यन्त इति श्रुतिः, शकुनेरिव-पक्षिण इव 'पोस'ति अपानं येषां ते तथा, पुरीषोत्सगर्गे निलेपापाना इत्यर्थः, पृष्ठ चान्तराणि च-पार्श्वदेशः ऊरूच परिणताः-सुजाता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, पद्मं च-कमलं उत्पलं च-नीलोत्पलं तत्सदृशो गन्धो यस्य स तथा तेन श्वासेन सुरभि वदनं येषां ते तथा, अनुलोमः-अनुकूलो मनोज्ञ इत्यर्थः वायुवेगः-शरीरसमीरणजवो येषां ते तथा, अवदाता:-गौराः स्निग्धाः कालाच-श्यामाश्च इति द्वन्द्वः, वैग्रहिको-शरीरानुरूपी उन्नती पीनौ कुक्षी-उदरदेशी येषां ते तथा, अमृतस्येव रसो येषां ते तथा तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता इत्यादि कण्ठ्यं । प्रमदा अपि च-खियोऽपि तेषां-मिथुनकराणां भवन्ति सौम्याः-अरौद्राः सुजातानि सर्वाण्यङ्गानि सुन्दराणि च यासां तास्तथा, प्रधानमहेलागुणयुक्ता इति कण्ठ्यं, अतिकान्ती-अतिकमनीयौ 'विसप्पमाण'त्ति विशिष्टखप्रमाणौ अथवा विसर्पन्तावपि-सञ्चरन्तावपि मृदूनां मध्ये सुकुमालौ कूर्मसंस्थिती-उन्नतत्वेन कच्छपसंस्थिती श्लिष्टी-मनोज्ञी चलनी-पादौ यासां तास्तथा, ऋजव:-सरला मृदवा-कोमला: पीवरा-उपचिताः सुसंहताः-अविरला: अकुल्या-पादाङ्गुलयो यासां तास्तथा, अभ्युन्नता-उन्नता रतिदाः-सुखदाः अथवा
रचिता इव रचिताः तलिना:-प्रतलाःताम्रा-आरक्ताः शुचयः-पवित्राः स्निग्धा:-कान्ता नखा यासा तास्तथा, जारोमरहितं-निर्लोमकं वृत्तसंस्थितं-बर्नुलसंस्थानं अजघन्यप्रशस्तलक्षणं-प्रचुरमङ्गल्यचिहं 'अकोप्पत्ति अद्वेष्यं
अनुक्रम
[१९]
~366~