SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० ( मूलं + वृत्ति:) अध्ययनं [४] श्रुतस्कन्ध: [१], मूलं [१५...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः पहाणाहिं लालियंता अतुलसफरिसर सरुवगंधे य अणुभवेत्ता तेवि उवणमंति मरणधम्मं अवितत्ता कामाणं । तच पुनः - अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसः सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'य'त्ति नागकुमाराः गरुडा:-गरुडध्वजाः सुपर्णकुमाराः 'विज्जु'त्ति विद्युत्कुमारा: 'जलण'त्ति अग्निकुमाराः 'दीव'त्ति द्वीपकुमाराः 'उदहि'त्ति उदधिकुमाराः 'दिसि'त्ति दिकुमाराः 'पवण'त्ति वायुकुमाराः 'पणिय'त्ति स्तनितकुमाराः एते दश भवनपतिभेदाः एतेषां द्वन्द्वः, अणपत्रिकाः पणपत्रिकाः ऋषिवादिकाः भूतवादिकाः क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतङ्गा इत्यष्टौ व्यन्तरनिकायानामुपरिवर्त्तिनो व्यन्तरजातिविशेषा एव एषामपि द्वन्द्वस्ते च ते देवाश्चेति कर्मधारयः तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः प्रतीताः, 'तिरियजोतिसविमाणवासि सि तिरश्चि-तिर्यग्लोके यानि ज्योतिकविमानानि तेषु निवसन्ति ये ते तथा ज्योतिष्का इत्यर्थः मनुजा-मानवा एतेषां द्वन्द्रः ततस्तेषां ये गणाः- समूहास्ते तथा, जलचरादयः मोहप्रतिबद्धचित्ता इति प्रतीतं, अवितृष्णाः प्राप्तेषु कामेषु अविगततृष्णा इत्यर्थः, कामभोगतृषिता - अप्राप्तकाम भोगेच्छयः, एतदेव प्रपञ्चयन्नाह तृष्णया भोगाभिलाषेण बलवत्या तीव्रया महत्या - महाविषयया समभिभूताः परिभूताः ग्रथिताश्र - विषयैः सह सन्दर्भिताः अतिमूच्छिताञ्च विषयदोषदर्शनं प्रत्यतिमूढतामुपगताः अब्रह्मणि अवसन्नाः पङ्क इव निमग्ना तामसेन भावेन For Pernal Use On ~338~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy