________________
आगम
(१०)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम
[१५]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययन [ ३ ]
मूलं [११]
श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
एकाकिनः सन्तो हरन्तीति 'उक्कडग' ति अपकर्षका ये गेहाद् ग्रहणं निष्काशयन्ति चौरान् वा आकार्य पर - गृहाणि मोषयन्ति चौरपृष्ठवहा वा सम्प्रदायका ये चौराणां भक्तकादि प्रयच्छन्ति 'उच्छ्पिक'त्ति अवच्छि|म्पकाश्चोरविशेषा एव सार्थघातकाः प्रतीताः बिलकोलीकारकाः परव्यामोहनाय विस्वरवचनवादिनो विस्वरवचनकारिणो वा एतेषां द्वन्द्वोऽतस्ते च, निर्गता ग्राहात्-ग्रहणान्निग्रहाः राजादिना अवगृहीता इत्यर्थः, ते च ते विप्रलोपकाश्चेति समासः बहुविधेन 'तेणिक्क'त्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिकरण बुद्धी पाठान्तरेण 'बहुविहतवहरणबुद्धि त्ति बहुविधा तथा तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्तरूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः कथंभूतास्ते इत्याह- परस्य द्रव्याये अविरता-अनिवृत्ता इति । ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एवं यथा तत्कुर्वन्ति तदुच्यते-विपुलं बलं सा मध्ये परिग्रहश्च - परिवारो येषां ते तथा ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा स्वके-द्रव्येऽसन्तुष्टाः परविषयान्-परदेशानभिन्नन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा युद्धलं सैन्यं तेन समग्रा-युक्ता ये ते तथा निश्चितैः- निश्चयवद्भिर्वरयोधैः सह यशुद्ध-सङ्ग्रामस्तत्र श्रद्धा सञ्जाता येषां ते तथा ते च ते अहमहमित्येवं दर्पिताश्च दर्पवन्त इति समासस्तैरेवंविधैः भृत्यैः-पदातिभिः कचित्सैन्यैरिति पव्यते संपरिवृताः समेताः तथा पद्मशकटसूचीचक्र सागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारो व्यूहः पद्मव्यूहः परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव
For Parts On
~294~
you