________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” -
श्रुतस्क न्धः [१], ----------------------- अध्य यनं [२] ----------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[७]
तथा 'वाउजीवोत्ति एवमाहंसुत्ति वातः-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाव्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात्, तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भ'त्ति इह भव एय-प्रत्यक्षजन्मैच एको भवः-एक जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति-नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत् एवंउक्तप्रकार जिपंति' जल्पन्ति, के?-मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धः, तथा किमन्यद्वदन्तीस्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दानव्रतपौषधानां-वितरणनियमपर्वोपवासानां तथा तपः-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणं कल्याणहेतुत्वासदादिर्येषां ज्ञानश्रादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकं, नापि चास्ति प्राणवधालीकवचनमशुभफलसाधनतयेति गम्यं, न चैव-नैव च चौर्यकरणं परदारसेवनं चास्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत्सपरिग्रहं तच तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित् , कोधमानाद्यासेवनरूपं नरकादिका च जगतो विचित्रता खभावादेव न कर्मजनिता, तदुक्तं-'कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, खभावेन भवन्ति ही ॥१॥"ति, मृषावादिता चैवमेतेषांखभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कम्मैवासो अथानान्तरभूतस्ततो जीव एवासी
अनुक्रम
[११]
Saintaintinuina
~264~