________________
आगम
(१०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[C]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययनं [१]
मूलं [... ४]
श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्र. व्या. ५
Jan Eucatur
भर्जनं भ्राष्टुपचनं गालनं छाणनं आमोटनं-ईषद्भञ्जनं शयनं स्वत एवं विशरणं स्फुटनं स्वत एव द्विधाभावगमनं भञ्जनं आमर्द्दनं छेदनं प्रतीतं तक्षणं काष्ठादेरिव वास्यादिना विलुश्चनं-लोमाद्यपनयनं पत्रज्झोडनं तरुप्रान्त पल्लवफलादिपातनं अग्निदहनं प्रतीतं एतान्यादिर्येषां तानि दुःखान्येकेन्द्रियाणां भवन्तीति गम्यं, तथा एकेन्द्रियाधिकारं निगमयन्नाह एवम् उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद् दुःखं तत्समनुबद्ध- अविच्छिन्नं येषां ते तथा अटन्ति संसारे एव 'बीहणकरेति भयङ्करः तत्र जीवाः प्राणाति| पातनिरता अनन्तं कालं यावदिति । अथ प्राणातिपातकारिणो नरकादुद्धृता मनुष्यगतिगता यादृशा भ वन्ति तथोच्यते— 'जेsवियेत्यादि येऽपिचेह मर्त्यलोके मानुषत्वमागताः प्राप्ताः कथञ्चित् कृच्छ्रादित्यर्थो नरकादुद्धृताः अधन्यास्तेऽपिच दृश्यन्ते प्रायशः प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिर्व्यभिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपञ्श्चयन्नाह - कुजाः वक्रजङ्गाः वृदभाश्च वक्रोपरिकाया | वामनाश्च-कालानौचित्येनातिखदेहा बधिराः प्रतीताः काणाः दीपकाणाः फरला इत्यर्थः कुण्टाश्च विकृतह|स्ताः पङ्गलाः- गमनासमर्थजङ्घाः विकलाश्च-अपरिपूर्णगात्राः मूकाश्च-वचनासमर्थाः पङ्गलाः 'अविय जलमूर्य'त्ति पाठान्तरं तत्र अपिचेति समुचये जलमूकाः- जलप्रविष्टस्येव 'बुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च येषां जल्पतां स्खलति वाणी 'अंधिलग'त्ति अन्धाः एकं चक्षुर्विनिहतं येषां ते एकचक्षुर्विनिहताः 'सचिल्लय'त्ति सर्वापचक्षुषः पाठान्तरेण 'सपिसल्लय'ति तत्र सह पिसल्लयेन-पिशाचेन वर्त्तन्त इति सपिसल्लयाः व्या
For Parts Only
~250~
arry