SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [8] दीप अनुक्रम [4] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [१] मूलं [...४] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः Educat नयने- लोचने निर्दयं च निष्कृपं यथा भवत्येवं 'उल्लगं 'ति अवरुग्णं भग्नं विकृत्तं च वदनं येषां ते तथा, पाठान्तरेण अवलुग्णानि छिन्नानि विकृत्तानि गात्राणि येषां ते तथा उत्क्रोशन्तश्च ऋन्दन्तः उत्पतन्तो निपतन्तो भ्रमन्तः पूर्वकर्मोदयोपगता इति च पदचतुष्टयं व्यक्तं, पश्चादनुशयेन पश्चात्तापेन दद्यमानाः निन्दन्तो-जुगुप्समाना: 'पुरेक्खडाई' पूर्वभवकृतानि कर्माणि क्रियाः पापकानि-प्राणातिपातादीनि ततः 'तहिं 'ति तस्यां २ रत्नप्रभादिकायां पृथिव्यां प्रकृष्टादिस्थितिके नरके तादृशानि जन्मान्तरे उपार्जितानि परमाधार्मि| कोदीरितपरस्परोदीरित क्षेत्रप्रत्ययरूपाणि 'उस्सण्णचिकणाईति उस्सण्णं प्राचुर्येण चिकणाई - दुर्विमोचानि दुःखानि अनुभूय ततश्च निरयादायुःक्षयेणोद्वृत्ताः सन्तो यहवो गच्छन्ति तिर्यग्वसतिं तिर्यग्योनिं यतोऽल्पा एव मनुष्येषूत्पद्यन्ते, दुःखोत्तारां अनन्तोत्सर्पिण्यव सर्पिणीरूपकायस्थितिकत्वात् तस्यां सुदारुणां दुःखाश्रयत्वात् जन्मजरामरणव्याधीनां याः परिवर्तना:- पुनः पुनर्भवनानि ताभिररघट्ट इवारघट्टो या सा तथा तां तिर्यग्वसतिं जलस्थलखचराणां परस्परेण विहिंसनस्य विविधव्यापादनस्य प्रपञ्चो विस्तारो यस्यां सा तथा तां, तस्यां च इदं वक्ष्यमाणप्रत्यक्षं जगत्प्रकटं न केवलमागमगम्यं किन्तु जङ्गमजन्तूनां प्रत्यक्षप्रमाण| सिद्धता प्रकटमेवेति वराकाः- तपस्विनः प्राणवधकारिण इति प्रक्रमः, दुःखं प्राप्नुवन्ति दीर्घकालं यावत्, 'किं ते'ति तद्यथा शीतोष्णतृष्णाक्षुद्भिर्वेदनाः तथा अप्रतीकारं - सूतिकर्मादिरहितं अटवीजन्म - कान्तारजन्म नित्यं भयेनोद्विग्रानां मृगादीनां वासः - अवस्थानं जागरणं-अनिद्रागमनं च वधो-मारणं बन्धनं संयमनं For Parts Only ~244~ iyorg
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy