________________
आगम
(१०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[C]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्ति:)
अध्ययनं [१]
श्रुतस्कन्ध: [१],
मूलं [... ४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
तत्तथा ततः पदत्रयस्य द्वन्द्वः, 'हमेहि'न्ति एभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परं वेदनामुदीरयन्तीति योगः 'किं ते'ति तद्यथा मुद्गरः- अयोधनः मुसुण्डिः - महरणविशेषः 'करकर्य'ति क्रकचं - करपत्रं शक्तिः - त्रिशूलं | हलं - लाङ्गलं गदा - लकुट विशेषः मुशलं चक्रं कुन्तं च प्रतीतं तोमरो-बाणविशेषः शूलं प्रतीतं 'लउड'त्ति लकुटं भिंडिमाल:- प्रहरणविशेषः सदलो-भल्ला पहिसः प्रहरणविशेषः 'चर्मेष्ट' चर्म्मवेष्टितपाषाणविशेषो दुघणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाण: पाषाण एव असिखेटकं - असिना सह फलकं खगः - केवल एवं चापंधनुः नाराचः- आयसो वाणः कणको बाणविशेषः कल्पनी-कर्त्तिकाविशेषः वासी-काष्ठतक्षको पकरणविशेषः परशुः कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्म्मधारयः, ततस्तैरिति व्याख्येयं तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभैवैक्रियैः प्रहरणशतैरभिन्नन्तः अनुवद्धतीववैरा-अविच्छिन्नोत्कट वैरभावाः परस्परं - अन्योऽन्यं वेदनामुदीरयन्ति, नारका एव तिसृश्यः नरकपृथ्वीभ्यः, परतो नरकपालानां गमनाभावात्, 'तत्थे'ति तत्र च परस्पराभिहननेन वेदनोदीरणेन मुद्गरप्रहारचूर्णितो मुसुण्डिभिः सम्भग्नो मथितश्च विलोडितो देहो येषां ते तथा, तथा यत्रोपपीडनेन स्फुरन्तश्च कल्पि ताश्च-छिन्ना यत्रोपपीडनस्फुरत्कल्पिता: 'केइत्थ'ति केचिदत्र नरके सचर्मकाः चर्मणा सह विकृत्ता-उत्कृ साः पृथकृतचर्माण इत्यर्थः तथा निर्मूलोलूनकर्णौष्ठनासिकारिछन्न हस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनां प्रहारैः स्फाटिता- विदारिता ये ते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा ततः पदद्वयस्य कर्म्म
For Pale Only
~ 242~