________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्ययनं [१] ----------------------- मलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
तरक्षाः अच्छा भल्लाः शार्दूलाच व्याविशेषाः सिंहा-हरयः चित्तला-नाखरविशेषा एवं पाठान्तरेण चिला-हरिणाकृतयो द्विखरविशेषास्तत एषां कुरङ्गादीनां द्वन्द्वः, 'चउप्पयविहाणाकए एवमाईत्ति चतुष्प-पद विधानकानि तजातिविशेषाः कृतानि-विहितानि यैर्व्यक्तिभूतैः कुरङ्गादिभिस्ते तथा, ततः पूर्वपदेन कर्मधारयः, ततस्तांश्च एवमादीन-कुरङ्गादिप्रकारान् , तथा अजगराः-शयुपर्यायाः उर-परिसर्पविशेषाः गोणसादानिष्फणाहिविशेषाः बराहयो-दृष्टिविषायः फणाकरणदक्षाः मुकुलिनो-ये फणा न कुर्वन्ति काकोदरा
दर्भपुष्पाश्च दर्वीकरसर्पविशेषाः, आसालिका महोरगाश्वोपरिसर्पविशेषाः, तत्रासालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षतो भवति, क्षयकाले च महानगरस्कन्धावारादीनामध उत्पद्यते, महोरगास्तु मनुष्यक्षेत्रवहि विनो यच्छरीरं योजनसहस्रप्रमाणमुत्कर्षत आख्यायत इति, तत एतेषां द्वन्द्वः, ततः तेषां उरगविधानकानि कृतानि यैस्ते तथा ततः कर्मधारयः, ततश्च तांश्च एक्मादीनि, तथा क्षीरलाः शरम्बाश्चभुजपरिसप्पैविशेषाः सेहा:-तीक्ष्णशलाकाकुल शरीराः शल्यका-यचर्मकतेलकैरहरक्षा विधीपते गोधा उन्दुरा नकुलाश्च प्रतीताः शरटा:-कृकलाशा जाहका:-कण्टकावृतशरीराः मुगुंसा:-खाइलिल्लाकृतयः खाडहिला:-कृष्णशुक्लपट्टाङ्कितशरीराः शून्यदेवकुलादिवासिन्यः वातोत्पत्तिका रूळपावसेया गृहकोकिलिका:गृहगोधिकाः, एतेषां द्वन्द्वः, तल एते च ते सरिसृपगणाश्चेति कर्मधारयस्ततस्तांश्च एवमादीन-क्षीरलादिप्रकारानित्यर्थः, तथा कादम्बा-हंसविशेषाः बकाच-पकोटका: बलाकाश्च-विसकण्ठिकाः सारसाश्च-दावा
~220~