SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८-२१] क्षिप्तज्ञाता मेघवृत्तं सू. २१ दीप अनुक्रम [२५-३० ज्ञाताधर्म- अचिंता येते तथा तान् , पाठान्तरेण 'तिलकरत्नार्द्धचन्द्रचित्रान्' नानामणिमयदामालङ्कतान् अन्तर्बहिश्च लक्षणान- कथाङ्गम्म मृणान् तपनीयस्स या रुचिरा वालुका तस्याः प्रस्तर:-प्रतरः प्राङ्गणेषु येषां ते तथा तान्, सुखस्पोन् सश्रीकाणि सशोभनानि रूपाणि-रूपकाणि येषु ते तथा तान्, प्रसादीयान्-चित्ताहादकान् दर्शनीयान-यान् पश्यच्चक्षुने श्राम्यति, ॥४२॥ अभिरूपान्-मनोज्ञरूपान् द्रष्टारं द्रष्टार प्रति रूपं येषां ते तथा तान् , एकं महद्भवनमिति, अथ भवनप्रासादयोः को विशेषः, उच्यते, भवनमायामापेक्षया किश्चितन्यनोच्छ्रायमानं भवति, प्रासादस्तु आयामद्विगुणोच्छाय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिताः शालभञ्जिका:-पुत्रिका यसिन् तत्तथा, अभ्युद्गता-सुकता वज्रस वेदिका-द्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभिः रचिताभी रतिदाभिर्वा शालभजिकाभिः सुश्लिष्टाः संवद्धाः विशिष्टा लष्टाः संस्थिताः प्रशस्ताः वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकनकरलैः खचितं च उज्ज्वलं च यत्तत्तथा ततः पदत्रयस्य | कर्मधारयः,'बहुसमति अतिसमः सुविभक्तो निचितो-निबिडो रमणीयश्च भूभागो यत्र तत्तथा, ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचित्रमिति यावत्करणात् दृश्य, तथा स्तम्भोद्गतया-स्तम्भोपरिवर्तिन्या वजस्य वेदिकया परिगृहीतं-परिवेष्टितमभिरामं च यत्तत्तथा 'विजाहरजमलजुयलजंतजुतं'ति विद्याधरयोर्यत् यमलंसमश्रेणीकं युगलं-द्वयं तेनैव यत्रेण-संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा आपसाचैवंविधः समास इति, तथा अर्चिषा- | किरणानां सहस्रर्मालनीयं-परिवारणीयं 'भिसमाणं ति दीप्यमानं 'भिन्भिसमा ति अतिशयेन दीप्यमानं चक्षुः कर्तृ लोकनेIS अवलोकने दर्शने सति लिशतीव-दर्शनीयखातिशयात् श्लिष्यतीव यत्र तत्तथा, नानाविधाभिः पञ्चवर्णाभिर्घण्टाप्रधानपताकामिः ॥४२॥ Re ~94
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy