SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१८-२१] दीप अनुक्रम [२५-३०] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) ------ अध्ययनं [१], मूलं [१८-२१] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः सेधयति निष्पादयति शिक्षयति-अभ्यासं कारयति 'नवंगसुतपडिवोहिए' ति नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिहेका लगेका मनचैकं सुप्तानीव सुप्तानि - बाल्यादव्यक्तचेतनानि प्रतिबोधितानि - यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये- 'सोसाई नव सुत्ता' इत्यादि, अष्टादश विधिप्रकाराः प्रवृत्तिप्रकाराः अष्टादशभिर्वा विधिभिःभेदैः प्रचारः प्रवृत्तिर्यस्याः सा तथा तयां, देशी भाषायां देशभेदेन वर्णावलीरूपायां विशारदः पण्डितो यः स तथा, गीतिरतिर्गधर्वे - गीते नाट्ये च कुशलः, हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमुद्रातीति बाहुप्रमर्दी, साहसिकलाडिकाले चरतीति विकालचारी । 'पासायवर्डिसएत्ति अवतंसका इवावतंसकाः शेखराः प्रासादाथ तेऽवर्तसकाथ प्रासादावर्तसका प्रधानप्रासादा इत्यर्थः 'अन्भुग्गयमूसिय'त्ति अभ्युद्गतोच्छ्रितान् अत्युच्चानित्यर्थः, अत्र च द्वितीयाबहुवचनलोपो दृश्य:, 'पहसिएविव'त्ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः, तथा मणिकनकरलानां भक्तिभिः - विच्छि 8 तिमिचित्रा ये ते तथा वातोडूता याः विजयसूचिका वैजयन्त्यभिधानाः पताकाः छत्रातिच्छत्राणि च तैः कलिता ये ते तथा ततः कर्मधारयस्ततस्तान्, तुङ्गान् कथमिव ? - गगनतलमभिलयच्छिखरान् 'जालंतररयणपंजरुमिल्लियषति जालान्तेषु| मत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा ततो द्वितीयाबहुवचनलोपो दृश्यः पञ्जरोन्मीलितानि च-पृथकृकृतपञ्जराणि च प्रत्यग्रच्छायानि त्यर्थः, अथवा जालान्तररत्नप अरैः- तत्समुदाय विशेषैरुन्मीलितानीबोन्मीलितानि चोन्मी पितलोचनानि चेत्यर्थः, मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकैः पुण्डेः रत्नैः कर्केतनादिभिः अर्द्धचन्द्रः सोपानविशेषैः भित्तिषु वा चन्दनादिमयैरालेख्यैः Education Internationa For Personal Use Only ~93~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy