SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२] गाथा अवतरणं तेन प्रारब्धम्-आरब्धमभिभवितुमिति गम्यते अपराद्धं वा-विनाशितं दिनकरपरम्परावतारपारब्धं तसिन् सति, हा च तस्येति सापेक्षत्वेऽपि समासः, तथा दर्शनादन्धकारे-तमसि तथा बालातप एव कुलमं तेन खचिते इव जीवलोके सति। तथा लोचनविषयस्य-दृष्टिगोचरस्य योऽणुयासोत्ति-अनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंचासौ वर्द्धमानो विशदश्चस्पष्टः स चासो दर्शितश्चेति लोचनविषयानुकाशविशददर्शितस्तसिन् , कस्मिनित्याह-लोके अयमभिप्रायः-अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशः क्रमेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अंधकारसद्धावे दृष्टेरप्रसरणे लोकस्य संकीणसेव प्रतिभासनादिति, तथा कमलाकरा-इदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधको यः तस्मिन् उत्थिते-उदयानन्तरावस्थावाले 'सरे आदित्ये किंभूते-सहस्ररश्मी तथा 'दिनकरें दिनकरणशीले तेजसा ज्वलति सतीति । 'अणसालति | अट्टनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनं च-उल्ललन च्यामर्दनं च-परस्परेण बाहाधगमोटनं मल्लयुद्धं च-प्रतीतं करणानि च-बाहुभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गा| पेक्षया सर्वतः शतकृयो यत्पकं शतेन वा कार्याषणानां यत्पकं तच्छतपकमेवमितरदपि सुगन्धिवरतैलादिभिरभ्मंगैरिति योगः आदिशब्दात घृतकर्पूरपानीयादिग्रहः किम्भूतैः-'प्रीणनीयैः रसरुधिरादिधातुसमताकारिभिदीपनीयैः-अग्निजननैः दर्प-18 राणीयैः-बलकरैः मदनीयैः-मन्मथबृहणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगैः-स्नेहनैः अभ्यंगः क्रियते || यस सोऽभ्यङ्गितः सन् , ततस्तैलचर्मणि-तैलाभ्यक्तस्य संबाधनाकरणाय यचर्म तत्तैलचर्म तमिन् संवाहिते 'समाणे त्ति योगः, | कैरित्याह ?-पुरुषैः, कथम्भूतैः ?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानि तलानि-अधोभागा येषां ते दीप अनुक्रम [१५-१७]] स्वप्न-फल कथन ~53
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy