________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [७९-८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सूत्रांक [७९-८०]
खर्गसम्भवमोगजातं तसा क्षीणः परिभोगो यस्याः सा तथा, च्यवनकाले देववरवधूः, अथवा 'उप्पयमाणीवियेत्यादाविवशब्दसान्यत्र योगादुत्पतन्ती नौः, केव-सिद्धविद्याविद्याधरकन्यकेवेत्यादि व्याख्येयमिति,तथा सञ्चूर्णितानि काष्ठानि कूवर च-तुण्डं यस्याः सा तथा, तथा भया मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो-मनः सहसा-अकस्मात् सहस्रसाजनाश्रयभूतो वा मालो-मालकः उपरितनभागो जनाधारो यस्याः सा तथा, ततः पदद्वयस्य कर्मधारयः, तथा । शूलाचितेव-शूलामोतेव गिरिशृङ्गारोहणेन निरालम्बनतां गतसालाचिता पको-वक्र: परिमों-जलधिजलस्पर्शो यस्याः | सा तथा ततः कर्मधारयः अथवा शूलायित:-आचरितशूलारूप: स्कन्दितपरिकरवात् 'मूलाइच'चि पाठे तु शूलाय-18 मानो वन-वक्र: 'परिमासोति नौगतकाष्ठविशेषो नाविकप्रसिद्धो यस्यां सा तथा, फलकान्तरेषु-सङ्कटितफलकविवरेषु तटतटायमाना:-तथाविधध्वनि विदधानाः स्फुटन्तो-विघटमानाः सन्धयो-मीलनानि यस्यां सा तथा, विगलन्त्यो। लोहकीलिका यस्यां सा तथा, ततः कर्मधारयः, तथा सर्वाङ्ग:-सर्वावयवैषिजृम्भिता-विवृततां गता या सा तथा, परिशटिता रजवा-फलकसङ्घातनदवरिका यस्याः सा तथा, अत एच 'विसरंत'त्ति विशीर्यमाणानि सर्वाणि गात्राणि यस्याः सा तथा, ततः कर्मधारयः, आमकमल्लकभूता-अपकशराबकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथा| अकृतपुण्यजनमनोरथ इव चिन्त्यमाना-कथमियमेतामापदं निस्तरिष्यतीत्येवं विकल्प्यमाना गु/-गुरुका, आपदः सकाशात् दुःसमुद्धरणीयखात्, निष्पुण्यजनेनापि खो मनोरथः कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुनिर्वहखाद् गुरुरेव भव-18 न्तीति तेनोपमेति, तथा हाहाकृतेन-हाहाकारेण कर्णधाराणा-निर्यामकाणां नाविकाना-कैवर्चानां वाणिजकजनानां कर्मकराणां
दीप अनुक्रम [११०-११२]
~327