SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्धः [१] ----------------- अध्ययनं -, ----------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथाइम्. ॥ ७ ॥ पेक्षया तपो वा प्रधान यस्य स तपःप्रधानः, एवं गुणप्रधानोऽपि, नवरं गुणाः संयमगुणाः, एतेन च विशेषणद्वयेन तपासंयमौ चम्पाया | पूर्ववद्धाभिनवयोः कर्मणोनिर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शिती, गुणप्राधान्ये प्रपञ्चार्थमेवाह-एवं करणे श्रीसुधर्मात्यादि, यथा गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिमिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, Kगमनं सू.४ तद्यथा-करणप्रधानश्चरणप्रधानो यावच्चरित्रप्रधानः, तत्र करणं-पिण्डविशुस्यादिः, यदाह-"पिंडविसोही समिह भावणे"त्यादि. चरण-महावतादि, आह च-'वयसमणधम्मसंजमवेयावच्चं चेत्यादि, निग्रहः-अनाचारप्रवृत्तनिषेधनं निश्चयः-तच्चानां निर्णयः, विहितानुष्ठानेषु वाऽयव्यंकरणाभ्युपगमः आर्जवं-मायानिग्रहो मार्दवं-माननिग्रहो लापर्व-क्रियासु दक्षत्वं शान्ति:-क्रोधनिग्रहः। | गुप्तिमनोगुप्त्यादिका, मुक्तिनिर्लोभता, विद्या:-प्रज्ञत्यादिदेवताधिष्ठिता वर्णानुपूर्दी, मत्रा-हरिणेगमिष्यादिदेवताधिष्ठितास्ता एव अथवा विद्याः ससाधनाः साधनरहिता मन्त्रा ब्रह्म-ब्रह्मचर्य सर्वमेव वा कुशलानुष्ठानं वेदः-आगमो लौकिकलोकोत्तरकुमावचनिकभेदः नया-नैगमादयः सप्त प्रत्येकं शतविधाः नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-वचनविशेष शौच-द्रव्यतो निलेपता| | भावतोऽनवद्यसमाचारता शान-मत्यादि दर्शन-चक्षुर्दर्शनादि सम्यक्त्वं वा चारित्रं-बाह्यं सदनुष्ठान, यह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्य ख्यापनार्थ, ननु जितक्रोधस्वादीनां आर्जवादीनां च को विशेषः', उच्यते, जितक्रोधादि विशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोधः, अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान || इत्येवं हेतुहेतुमदावाद विशेषः, तथा ज्ञानसंपन्न इत्यादी ज्ञानादिमच्च मात्रमुक्तं ज्ञानप्रधान इत्यादी तु तद्वता मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुत्यं भावनीयं, तथा 'ओराले'त्ति भीमो भयानका, कथम् -अतिकष्टं तपः कुर्वन् पाश्चैवर्तिनामल्पस-1 ॥ ७ ॥ JMER सुधर्मस्वामिन: वर्णनं ~24
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy