SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [8] दीप अनुक्रम [3] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) अध्ययनं [-], मूलं [१] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः भवनदेवकुलादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि प्रतीतानि उन्नतानि - गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताविविक्ता राजमार्ग यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदढफलिहइंदकीला' छेकेन - निपुणेनाचार्येणशिल्पिना रचितो दृढो बलवान् परिघः-अर्गला इन्द्रकीलच - गोपुरावयव विशेषो यस्यां सा तथा 'विवणिवणिछे त्तसिप्पियाइपण निव्वयसुहा' विषणीनां वणिक्पथानां हट्टमार्गाणां वणिजां च-वाणिजकानां क्षेत्रं स्थानं या सा तथा शिल्पिभिः - कुम्भकारादिभिराकीर्णा सुनिर्वृतैः सुखैश्च सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचक्कचचरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटकं-त्रिकोणं स्थानं त्रिकं यत्र रध्यात्रयं मिलति चतुष्कं रथ्याचतुष्कमीलकः चखरं- बहुरध्यापातस्थानं पणितानि भाण्डानि तत्प्रधाना आपणा - हट्टा : विविधवस्तूनि अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा 'सुरम्मा' अतिरमणीया 'नरवइपविन्नमहिवहपहा' नरपतिना राज्ञा प्रविकीर्णो- गमनागमनाभ्यां व्याप्तः महीपतिपथो - राजमार्गो यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, 'अणेगवरतुरगमत्तकुंजररहपहकर सीय संदमाणी आइन्नजाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपहयर ति रथनिकरैः शिक्षिकाभिः स्यन्दमानाभिराकीर्णा व्याप्ता यानैर्युग्यैश्व या सा तथा, तत्र शिविका:- कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिका:पुरुषप्रमाण जम्पानविशेषाः यानानि शकटादीनि युग्यानि - गोलविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति, 'विमजलनवनलिणिसोभियजला' विमुकुलाभिः - विकसितकमलाभिर्नवाभिर्नलिनीभिः पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवणसन्निमहिया' पाण्डुरैः - सुधाधवलैर्वरभवनैः - प्रासादैः सम्यक् नितरां महितेव महिता Education Internation चम्पा नगर्याः वर्णनम् For Parts Only ~15~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy