________________
आगम
[०५]
प्रत
सूत्रांक
[२८७]
दीप
अनुक्रम [३५९]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [ २८७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भाभूतः, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'ति कोलाहल इहार्त्तशकुनि समूहध्वनिस्तं भूतः - प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफ रुसधूलि महल' चि खरपरुषाः - अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुद्दिसह त्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवय'त्ति तृणकाष्ठादीनां संवर्त्तकाः 'इह'त्ति अस्मिन् काले 'अभिक्ख'ति अभीक्ष्णं 'धूमार्हिति य दिसं ति धूमायिष्यन्ते - धूममुद्व मिष्यन्ति दिशः पुनः किंभूतास्ताः १ इत्याह- 'समता रउस्सल' त्ति समन्तात् सर्वतो रजस्वला - रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-धूल्या कलुषा-मलिना रेणुकलुषाः तमः पटलेनअन्धकारवृन्देन निरालोकाः- निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खयाए ' कालरूक्षतया चेत्यर्थः 'अहियन्ति अधिकम् 'अहितं वा' अपथ्यं 'मोच्छंति'त्ति 'मोक्ष्यन्ति त्रक्ष्यन्ति 'अदुत्तरं च'ति अथापरं च 'अरसेमहत्ति अरसा - अमनोज्ञा मनोज्ञरसबर्जितजला ये मेघास्ते तथा 'विरसमेह' ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते 'खार मेह'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह'त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह'त्ति कचिदृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह'त्ति अग्निवद्दाहकारिजला इत्यर्थः 'विज्जुमेह' चि | विद्युत्प्रधाना एवं जलवर्जिता इत्यर्थः विद्युन्निपातयन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा 'विसमेह'त्ति जन मरणेहतुजला इत्यर्थः 'असणिमेह'त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'अप्पव
Education International
दुषम- सुषम: आरकस्य वर्णनं
For Parts Only
~53~