________________
आगम
[०५]
प्रत
सूत्रांक
[४२०]
दीप
अनुक्रम [५१०]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [४२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः२
||॥५२३ ।।
क्षेत्रलोकः, आह च "आगासस्स पएसा उहूं च अहे य तिरियलोए य । जाणाहि खेत्तलोयं अनंत जिणदेसियं सम्मं ॥ १ ॥” [ आकाशस्य प्रदेशा ऊर्द्ध चाधश्च तिर्यग्लोके च । जानीहि क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ॥ १ ॥ ] 'काललोए' त्ति कालः - समयादिः तद्रूपो लोकः काललोकः, आह च — “समयावली मुहुत्ता दिवस अहोरचपक्खमासा व । | संवच्छरजुगपलिया सागरउस्सप्पिपरिया ॥ १ ॥ " [ समय आवलिका मुहूर्त्तः दिवसः अहोरात्रं पक्षो मासव संवत्सरो युगं पल्यः सागरः उत्सर्पिणी परावतः ॥ १ ॥ ] 'भावलोए'ति भावलोको द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमतस्तु भावा- औदयिकादयस्तद्रूपो लोको भावलोकः, आह च - "ओदइए उवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छविहो | भावलोगो उ ।। १ " [ औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च । पारिणामिकश्च सनिपातश्च परिधो भावलोकस्तु ॥ १ ॥ ] इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति । 'अहेलोयखेत्तलोपंत्ति अधोलोकरूपः क्षेत्रलोकोऽधोलोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधःस्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोयखेत्तलोए त्ति रुचकापेक्षयाऽध उपरि च नव २ योजनशतमानस्तिर्यगूरूपत्वात्तिर्यगूलोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोक क्षेत्रलोकः, 'उठ्ठलोपखेत्तलोए'त्ति तिर्यग लोकस्योपरि देशोनसप्त
लोक-स्वरूपं एवं तस्य भेद-प्रभेदाः
ForParsala Lise Only
~488~
११ शतके
१० उद्देशः द्रव्यक्षेत्रा दिलोकः सु ४२०
||५२३||
www.anibrary.org