________________
आगम
[०५]
प्रत
सूत्रांक
[३८६
__-३८७]
दीप
अनुक्रम
[४६६
-४६७]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [ ३३ ], मूलं [ ३८६-३८७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
४८७
दीसह न सिवादखाइ दीसह तदंते । तो नहि किरियाकाले जुत्तं कर्ज तदंतंमि ॥ ४ ॥” इति । 'अत्थेगइया समणा णिगंधा एयमहं णो सद्दहंति'त्ति ये च न श्रदधति तेषां मतमिदं-नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपुष्पवत्, यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदा खरविषाणमपि क्रियतामसत्त्वाविशेषात् अपि च-ये कृतकरणपक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्त्तन्ते, तथाहि नात्यन्तमसत् क्रियतेऽसद्भावात् खरवि पाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावैफल्यं च स्यादसत्त्वादेव खरविषाणवत्, अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशेषेणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाssकाशं कुरु, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं म्यायोऽत्यन्तासति खरविषाणादावस्तीति यच्चो- 'पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधः', तत्रोच्यते, यदि पूर्वमभूतं सद्भवद्दृश्यते तदा पूर्वमभूतं सद्भवत् कस्मात्त्वया खरविषाणमपि न दृश्यते, यच्चोक्तं-'दीर्घः क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पनानां परस्परेणेषद्विलक्षणानां सुबह्वीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं १ येनोच्यते दृश्यते दीर्घश्व क्रियाकालो घटादीनामिति, यच्चोक्तं- 'नारम्भएव दृश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ?, शिवकस्थासकादयश्च कार्य१ दृश्यते ( घटादि ) न स्वासकाद्यद्धायां किन्तु तदन्ते ततः क्रियाकाले कार्य न युक्तं युक्तम् तदन्त एव ॥ ४ ॥
Education Internation
जमाली चरित्रं
For Parts Only
~416~
९ शतके
उद्देशः ३३ कृतक्रिय
माणता सू३८७
॥४८७||
war