SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [ - ], अंतर् शतक [ - ], उद्देशक [३३], मूलं [ ३८४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः राणि मानसिकानि च प्रकामं अत्यर्थं दुःखानि तानि तथा तेषां यद्वेदनं, व्यसनानां च चौर्यद्यूतादीनां यानि शतानि | उपद्रवाश्च - राजचौर्यादिकृतास्तैरभिभूतो यः स तथा अत एव 'अधुवे 'त्ति न ध्रुवः- सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए'त्ति इतिशब्दो नियतरूपोपदर्शनपरः ततश्च न विद्यत इति यत्रासावनितिकः- अविद्यमाननियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्र्यादिभावात्, 'असासए'ति क्षणनश्वरत्वात्, अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह - 'संझे'त्यादि, किमुक्तं भवति ? इत्याह- 'अणिच्चे' त्ति अथवा प्राग् जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह'अणिचे' 'सटणपडणविद्धंसणधम्मे' त्ति शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्लादेः खङ्गच्छेदादिना विध्वंसनं-क्षयः एत एवं धर्मा यस्य स तथा 'पुद्धिं वि'त्ति विवक्षितकालात्पूर्वे वा 'पच्छा वित्ति विवक्षितकालात्पश्चाद्वा 'अवस्सविप्पजहिय'त्ति अवश्यं 'विप्रजहातव्यः' त्याज्यः 'से केस णं जाणइति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थः, 'के | पुष्टिं गमणयाए ति कः पूर्व पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्व को वा पश्चान्त्रियत इत्यर्थः ॥ 'पविसिद्धरूवं 'ति प्रविशिष्टरूपं 'लक्खणवंजणगुणोववेयं' लक्षणम् 'अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥ १ ॥" इत्यादि, व्यञ्जनं-मपतिलकादिकं तयोर्यो गुणः-प्रशस्तत्वं तेनोपपेतं सङ्गतं यत्तत्तथा 'उत्तमबलबीरियसत्तजुत्तं' उत्तमैर्बलवीर्यसत्स्वैर्युक्तं यत्तत्तथा, तत्र बलं शारीरः प्राणो वीर्य मानसोऽवष्टम्भः सत्त्वं चित्तविशेष एव यदाह - " सत्त्वमवैक्लव्य कर मध्यवसानकरं च अथवा उत्तमयोर्बलवीर्ययोर्यत्सत्यं सत्ता तेन युक्तं यत्तत्तथा 'ससोहग्गगुणसमूसियं ति ससौभाग्यं गुणसमुच्छ्रितं Education Internation जमाली चरित्रं For Parts Only ~379~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy