________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३५१]
IP नाम तत्तथा तस्य कर्मण उदयेनेति, 'दसणपडिणीययाए'त्ति इह दर्शनं-चक्षुर्दर्शनादि, तिबदसणमोहणिज्जयाएति
तीब्रमिथ्यात्वतयेत्यर्थः 'तिवचरितमोहणिजयाए'ति कषायव्यतिरिक्त नोकषायलक्षणमिह चारित्रमोहनीयं ग्राहय, तीन| क्रोधतयेत्यादिना कषायचारित्रमोहनीयस्य प्रागुक्तत्वादिति, 'महारंभयाए'त्ति अपरिमितकृप्याद्यारम्भतयेत्यर्थः, महारंभपरिग्गहयाए'त्ति अपरिमाणपरिग्रहतया कुणिमाहारेणं'ति मांसभोजनेनेति'माइल्लयाए'त्ति परवचनबुद्धिव(मोत्तया 'नियडिल्लयाए'निकृतिः-वञ्चनार्थं चेष्टा मायापच्छादनार्थ मायान्तरमित्येके अत्यादरकरणेन परवश्वनमित्यन्ये तदतया, 'पगइभद्दयाए'त्ति स्वभावतः पराननुतापितया 'साणुकोसयाए'त्ति सानुकम्पतया 'अमच्छरिययाए"त्ति मत्सरिक:-परगुणानामसोढा तद्भावनिषेधोऽमत्सरिकता तया ॥ 'सुभनामकम्मे त्यादि, यह शुभनाम देवगत्यादिकं कायउज्जुययाए'त्ति कायर्जुकतया परावश्चनपरकायचेष्टया 'भावुनुययाएत्ति भावणुकतया परावश्चनपरमनःप्रवृत्त्येत्यर्थः, 'भासजययाए'त्ति भाषर्जुकतया भाषाऽऽर्जवेनेत्यर्थः 'अविसंवायणाजोगेण ति विसंवादन-अन्यथाप्रतिपन्नस्यान्यथाकरणं तद्रूपो योगो-व्यापारस्तेन वा योगः-सम्बन्धी विसंवादनयोगस्तनिषेधादविसंवादनयोगस्तेन, इह च कायर्जुकतादित्रयं वर्तमानकालाश्रयं, अविसंवादनयोगस्वतीतवर्तमानलक्षणकालद्धयाश्रय इति ॥ 'असुभनामकम्मे त्यादि, इह चाशुभनाम नरकगत्यादिकम् ॥ 'कम्मासरीरप्पओगबंधे ण'मित्यादि, कार्मणशरीरप्रयोगबन्धप्रकरणं तैजसशरीरप्रयोगवन्धप्रकरणवनेयं, यस्तु विशेषोऽसावुच्यते-सबस्थोवा आउयस्स कम्मरस देसवंधग'त्ति, सर्वस्तोकत्वमेषामायुर्वन्धाद्धायाः स्तोकत्वादबन्धाद्धायास्तु बहुगुणत्वात् ,तदबन्धकाः समातगुणाः, नन्वसङ्ख्यातगुणास्तदबन्धकाः कस्मान्नोक्ताः?
दीप अनुक्रम [४२७]
COMBAHEORGESBE
C+
SSSSSS
कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा:
~265