________________
आगम
[०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३४३]
गाथा:
वासम्भवस्तथाऽप्यात्यन्तिके शीते तथाविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यां चोष्णमित्येवं
द्वयोरपि शीतोष्णपरीषयोरस्ति सम्भवः, नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण लतपस्विनामभावादिति । तथा 'जं समयं चरियापरीसहमित्यादि तत्र चर्या-प्रामादिषु संचरणं नैषेधिकी च-ग्रामादिष
प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्ततरोपाश्रये गत्वा निषदनम् , एवं चानयोर्विहारावस्थानरूप॥ त्वेन परस्परविरोधानेकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपि चर्यया सह विरुद्धेति न तयोरेकदा सम्भवस्ततैश्चकोनविं& शतेरेव परीपहाणामुत्कर्षणकदा वेदनं प्राप्तमिति, नैवं, यतो प्रामादिगमनप्रवृत्ती यदा कश्चिदौत्सुक्यादनिवृत्ततत्परिणाम
एव विश्रामभोजनाद्यर्थमित्वरशय्यायां वत्तेते तदोभयमप्यविरुद्धमेव, तत्त्वतश्चर्याया असमाप्तत्वा आश्रयस्य चाश्रय-12 णादिति, ययेवं तहिं कथं पबिधवन्धकमाश्रित्य वक्ष्यति-'जं समयं चरियापरीसहं वेएति नो तं समयं सेज्जापरीसह। वेएई'इत्यादीति !, अबोच्यते, पद्दधिधबन्धको मोहनीयस्याविद्यमानकरूपत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्यायामेव वर्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाचर्यायामपि, अतस्तदपेक्षया तयोः परस्परविरोधाधुगपदसम्भवः, ततश्च साध्वेव 'जं समयं चरिए'त्यादीति । 'छबिहबंधे'त्यादि, पविधवन्धकस्यायुमोहवर्जानां बन्धकस्य |
१ अत एव ऋजुसूत्रादीनां संयतानामेव परीवहा इति कथने अविरतदेश विरतानां परीषहा इति पक्षरूपाभ्यां नैगमन्यवहाराभ्यां विशिष्टता, क्रमेणोपयोगे सहजसमाधानमिदं, तथापि विंशतिपरीपयोगपद्यमतिपादकसूत्रविरोधात् न तत्कल्पना, भवतु वान्येषां परस्पराविरुद्धानां समुदित उपयोगो नानयोईयोः परस्पर विरुद्धयोः, वेदनाद्वयस्य योगपवाभावात् ।
दीप
SCR
अनुक्रम [४१६-४२०]
ECles
| कर्म-प्रकृत्ति:, कर्मन: भेदाः, परिषहा:
~223