________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२९-३३१]
हा हतोऽहं येन ममा तदाऽसौ न हत इत्येवमनुध्यानात्, तथा 'न' नैव कारयति मनसैव यथा हा न युक्तं कृतं यदसौ परेण न घातित इति चिन्तनात्, तथा 'कुर्वन्तं विदधानमुपलक्षणत्वात् कारयन्त वा समनुजानन्तं वा परमात्मानं प्राणाति-15 पातं 'नानुजानातिनानुमोदयति, मनसैव वधानुस्मरणेन तदनुमोदनात्, एवं न करोति न कारयति कुर्षन्तं नानुजा.
नाति वचसा, तथाविधवचनप्रवर्तनात्, एवं न करोति न कारयति कुर्वन्तं नानुजानाति कायेन तथाविधाङ्गविकारककारणादिति, न ह यथासयन्यायो न करोति मनसा न कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनसरणीयो.
वक्तृविवक्षाधीनत्वात् सर्वन्यायानां वक्ष्यमाणविकल्पायोगान्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पे एक पर विकल्पः। तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु यः २ पञ्चमषष्ठयोर्नव नव सप्तमे वयः अष्टमनवमयोर्नव नवेति, एवं सर्वेऽप्येकोन| पञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारित| मनुज्ञातं वा वधं क्रमेण न करोति न कारयति न चानुजानाति तन्निन्दनेन तदनुमोदननिषेधतस्ततो निवर्तत इत्यर्थः, &| तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसी क्रियमाणादिरिख स्यादिति, वर्तमानकालं वाश्रित्य सुगमैव,
भविष्यकालापेक्षया त्येवमसौ-न करोति मनसा तं हनिष्यामीत्यस्य चिन्तनात्, न कारयति मनसैव तमहं घातयिष्यामीत्यस्य चिन्तनात्, नानुजानाति मनसा भाविनं वधमनुश्रुत्य हर्षकरणात्, एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनप्रभृतिना करिष्यमाणं कारयिष्यमाणमनुमंस्यमानं वा वध क्रमेण न करोति न कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषां चैषां मीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति, इह
दीप
अनुक्रम
5444**
[४०२
-४०४]
श्रमणोपासकस्य व्रत एवं तस्य भेदा:
~183