SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] [भाग-९] “भगवती” - अंगसूत्र -५ [ मूलं + वृत्तिः ] शतक [८], वर्ग [-], अंतर- शतक [-] उद्देशक [२] मूलं [ ३२२-३२३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः त्वात्, ततः केवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायविषयत्वात्तस्येति । एवमज्ञानसूत्रेऽप्यस्पबहुत्वकारणं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे तु स्तोका मनःपर्यायज्ञानपर्यवाः, इहोपपत्तिः प्राग्वत्, तेभ्यो विभङ्गज्ञानपर्यवा अनन्तगुणाः, | मनःपर्यायज्ञानापेक्षया विभङ्गस्य बहुतमविषयत्वात् तथाहि - विभङ्गज्ञानमूर्द्धाध उपरिममैवेयकादारभ्य सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक् चासयातद्वीपसमुद्ररूपे क्षेत्रे यानि रूपिद्रव्याणि तानि कानिचिज्ज्ञानाति कांश्चित्तत्पर्यायांश्च तानि च मन:पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यया अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्त मूर्त्तामूर्त्तद्रव्यसर्व पर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात्, तेभ्यः श्रुतज्ञानपर्यवा विशेपाधिकाः, केषाञ्चित् श्रुताज्ञानाविषयीकृतपर्यायाणां विषयीकरणाद्, यतो ज्ञानत्वेन स्पष्टावभासं तत्, तेभ्योऽपि मत्यज्ञानपर्यवा अनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानं तु तदनन्तगुणानभिलाप्य वस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषाधिकाः केषाञ्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयीकरणात्, तद्धि मत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्त द्रव्यपर्यायाणामनन्यसाधारणावभासनादिति ॥ अष्टमशते द्वितीयः ॥ ८-२ ॥ अनन्तरमाभिनिवोधिकादिकं ज्ञानं पर्यवतः प्ररूपितं, तेन च वृक्षादयोऽर्था ज्ञायन्तेऽतस्तृतीयोदेशके वृक्षविशेषानाहकहविहा णं भंते! रुक्खा पन्नत्ता १, गोयमा ! तिविहा रुक्खा पण्णत्ता, तंजहा संखेज्जजीविद्या असंखे अत्र अष्टम-शतके द्वितीय- उद्देशकः समाप्तः अथ अष्टम शतके तृतीय- उद्देशक: आरभ्यते For Parts Only ~ 169~ war
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy