________________
आगम
[०५]
प्रत
सूत्रांक [३२२
३२३]
दीप
अनुक्रम
[३९५
-३९६]
[भाग-९] “भगवती” - अंगसूत्र -५ [ मूलं + वृत्तिः ]
शतक [८], वर्ग [-], अंतर- शतक [-] उद्देशक [२] मूलं [ ३२२-३२३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
परसम्बन्धित्वात्, अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते यस्मात्तत्रासम्ब द्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः यस्माच्च ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति, आह च - "जइ ते परपज्जाया न तस्स अह तस्स न परपजाया । [आचार्य आह ] -जं तंमि असंबद्धा तो परपज्जायववएसो ॥ १ ॥ चायसपज्जायविसेसणाइणा तस्स जमुवजुज्जंति । सघणमिवासंबद्धं बंति तो पज्जवा तस्स ॥ २ ॥ "त्ति । [यदि ते परपर्यायास्तस्य न अथ तस्य न परपर्यायाः । यत्तस्मिन्न सम्बद्धा ततः परपर्यायव्यपदेशः ॥ १॥ तस्य त्यागस्वपर्या| यविशेषणत्वादिना यदुपयुज्यन्ते ततः स्वधनमिवासम्बद्धमपि तस्य पर्याया भवन्ति ॥ २ ॥] 'केवइया णं भंते ! सुप णाणे'त्यादी, 'एवं चेव'त्ति अनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञता इत्यर्थः ते च स्वपर्यायाः परपर्यायाश्च तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वतोऽक्षर श्रुतादयो भेदास्ते चानन्ताः क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतानुसारिणां बोधानामनन्तत्वात् अविभागपरिच्छेदानन्त्याच्च, परपर्यायास्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतं प्रन्थानुसारि ज्ञानं श्रुतज्ञानं, | श्रुतप्रन्थश्चाक्षरात्मकः, अक्षराणि चाकारादीनि तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुनासिकनिरनुनासिकभेदात् अल्पप्रयत्न महाप्रयत्न भेदादिभिश्च संयुक्त संयोगा संयुक्तसंयोगभेदाद् द्व्यादिसंयोगभेदादभिधेयानन्त्याश्च | भिद्यमानमनन्तभेदं भवति, ते च तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्याय तत्, आह च- "एके कमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सङ्घदवपज्जायरासिमाणं मुणेयचं ॥ १ ॥ जे लग्भइ केवलो से सवन्नसहिओ य
Education Internation
For Parts Only
~ 167 ~
war