SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१८], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: + CC प्रत सूत्रांक [१८] द गाढतरमकृतिबन्धहेतुत्वात् , आह च-"जोगा पयडिपएस"ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा इस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः-उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, | असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात् , आह च-"ठिईमणुभार्ग कसायओ कुणइ"त्ति । तथा 'मंदाणुभावे.' त्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः-परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंघृतत्वस्य कषायरूपत्वादेव अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, 'अप्पपएसे'त्यादि, अल्प-स्तोकं प्रदेशाग्रं-कर्म दलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योग& रूपत्वादिति, 'आउयं चेत्यादि, आयुः पुनः कर्म स्यात् कदाचिनाति स्यात् कदाचिद् न बध्नाति, यस्मात्रिभागा द्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यदा न बनातीति, तथा असाए'त्यादि असातवेदनीयं च-दुःखवेदनीय कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति , ननु कर्मसप्तकान्तवर्तित्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्हणेन ? इति,अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति, 'अणाइय'ति अविद्यमानादिकम् अज्ञातिकं वा-अविद्यमानस्वजनम् ऋणस्वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततयेति ऋणातीतम् , अणं वाऽणक-पापमतिशयेनेतं-गतमणातीतम् , 'अणवयग्गं'ति, 'अवयग्गं'ति देशीवचनोऽन्तवाचकस्ततस्तनिषेधाद् अणवयग्गम् , अनन्तमि १ योगात्मकृतिपदेशबन्धौ ।। २ कषायतः स्थित्यनुभागबन्धं करोति ।। + RO -% दीप अनुक्रम [२४] 4%%* HTRIANGaram.org ~83~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy