SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९२-१९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१९२ -१९७] दीप साधारणलक्षणान्मात्रादि(देः)प्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयूरोऽत्र केकायितादिति, दृष्टसाधर्म्यवत् यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथे-18 त्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात् , तन्त्रात्मागमादयोऽथेतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह-'जावेत्यादि, 'तेण परं ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थतस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह-केवली णमित्यादि, चरमकर्म | यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति । 'पणीय'न्ति प्रणीतं | शुभतया प्रकृष्टं 'धारेजत्ति धारयेयापारयेदित्यर्थः। एवं अणंतरेत्यादि, अस्थायमर्थ:-यथा वैमानिका द्विविधा उक्ताः मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा वाच्याः, अनन्तरोपपमानकानां च ज्ञाननिषेधः, तथा परम्परोपपन्न का अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानां च ज्ञाननि-II पेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्याः, अनुपयुक्तानां च ज्ञाननिषेधश्चेति । वाचनान्तरे विदं सूत्र | साक्षादेवोपलभ्यते, 'आलावं वत्ति सकृजल्प 'संलावं वत्ति मुहुर्मुहुर्जल्प मानसिकमेवेति 'लद्धाओ'त्ति तदवधेविषय-13 भावं गताः 'पत्ताओ'त्ति तदवधिना सामान्यतःप्राप्ताः परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओं'त्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषय, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहक भवत्येव, यतो योऽपि | - अनुक्रम (२३२ - - -२३७] - ~458~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy