SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८३] स्थापितैन्धिभिः सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः-व्यवहितैः सह प्रथिता परम्परग्रथिता, किमुक्तं भवति ?Pil'अन्नमनगढिय'त्ति अन्योऽन्य-परस्परेण एकेन ग्रन्थिना सहान्यो प्रन्धिरन्येन च सहान्य इत्येवं प्रथिता अन्योऽन्यत्रसाथिता, एवं च 'अन्नमनगरुयत्ताए'त्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता-विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नम नभारियताए'त्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिकं तद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्कार्थवयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह-'अन्नमन्नगुरुयसंभारिपत्ताए'त्ति अभ्योऽन्येन गुरुकं यत्सम्भारिकं| च तत्तथा तद्भावस्तत्ता तया, 'अन्नमन्नघडत्ताए'त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता 8 तया 'चिट्ठहत्ति आस्ते, इति दृष्टान्तोऽथ दार्टान्तिक उच्यते-'एवामेव'त्ति अनेनैव न्यायेन बहूनां जीवानां सम्ब न्धीनि 'बहसु आजाइसहस्सेसुत्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि 18|| तत्स्वामिजीवानामाजातीनां च बहुशतसहस्रसङ्ग्यत्वात् , आनुपूर्वीप्रथितानीत्यादि पूर्ववव्याख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ।। अधैतेपामायुषां को वेदन विधिः । इत्याह-'एगेऽविये'त्यादि, एकोऽपि च जीव आस्तामनेकः, एकेन समयेनेत्यादि प्रथमशतकवत्, अत्रोत्तर-'जे ते एवमासु'इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवानां बहून्यायूंषि जालपन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा ?, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पने जीवानामपि जालग्रन्धिकाकल्पत्वं स्यात्तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वभवभवनप्रसङ्ग इति, अथ जीवानामसंब RSSC-NCRRORSCARDAMOMS* दीप अनुक्रम [२२३] एक-आयु: वेदनं ~442~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy