SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [<] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः | संस्थानं तेन संस्थितो व्यवस्थितो यः स तथा अयं च हीनसंहननोऽपि स्यादित्यत आह- 'वज्ररिसहनारायसंघयणे' त्ति, इह संहननम् - अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम् - "रिसहो य होइ पट्टो वज्रं पुण कीलियं वियाणाहि । | उभओ मकडबंधों नारायं तं वियाणाहि ॥ १ ॥” ति, तत्र वज्रं च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् | ऋषभश्च लोहादिमयपट्टबद्ध काष्ठसंपुटोपमसामर्थ्यान्वितत्वाद् वज्रर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसं| पुटोपमसामर्थ्योपेतत्वाद् वज्रर्षभनाराचं (तच्च) तत् संहननम् - अस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद् यस्यासौ वज्रर्षभनाराचसंहननः, अम्ये तु कीलिकादिमत्त्वमरनामेव वर्णयन्ति, अयं च निन्द्यवर्णोऽपि स्यादिलत आह- 'कणयपुलयनिह सपम्हगोरे' कनकस्य- सुवर्णस्य 'पुलगं'ति यः पुलको -लवस्तस्य यो निकष:- पपट्टके रेखालक्षणः, तथा 'पम्ह'सिपद्मपक्ष्माणि-केशराणि तद्वगौरो यः स तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म - बहलत्वं तद्वगौरों यः स तथा अथवा कर्मकस्य यः पुलको - द्रुतत्वे सति विन्दुस्तस्य निकषो-वर्णतः सदृशो यः स तथा, 'पम्ह'त्ति पद्मं तस्य चेह प्रस्तावात्केशराणि गृह्यन्ते ततः पद्मवगौरो यः स तथा, ततः पदद्वयस्य कर्म्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्वादित्यत आह- 'उग्गतवेत्ति उग्रम्-अप्रधृष्यं तपःअनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः, 'दित्ततत्रे' त्ति, दीक्षं जाज्वल्यमान दहन इव कर्म्मवन गहन दहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, 'तत्ततवें' ति १ ऋषभो भवति पट्टो व पुनः कीलिकां विजानीहि । उभयतो मर्कटबन्धस्तु नाराचं विजानीहि ॥ १ ॥ गौतमस्वामिन: वर्णनं For Parts Only ~37~ Mar
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy