________________
आगम
(०५)
प्रत
सूत्रांक
[८०]
दीप
अनुक्रम [१०२]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [८०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Ja Eucatur
न करोति तदा क इव दोषोऽत्र १, कारणानां स्वस्वकार्यकरणस्वभावत्वादिति । यच्चोतं-द्वौ परमाणू न संहभ्येते, सूक्ष्मतया स्नेहाभावात् तदयुक्तम् एकस्यापि परमाणोः स्नेहसम्भवात् सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत | उक्तम्- “तिष्णि परमाणुपोग्गला एगयओ साहणंति ते भिमाणा दुहावितिहावि कज्जति, दुहा कज्जमाणा एगओ दिव"त्ति, अनेन हि सार्द्धपुङ्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः | स्नेहाभावेन सङ्घाताभाव इति यच्चोक्तम् एकतः सार्द्ध एकतः सार्द्ध इति एतदप्यचारु, परमाणोरद्धीकरणे परमाणुस्वाभावप्रसङ्गात् तथा यदुक्तं पश्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं कर्मणोऽनन्तपरमाणुतयाऽनन्तस्क|न्धरूपत्वात् पश्चाणुकस्य च स्कन्धमात्रत्वात् तथा कर्म जीवावरणस्वभावमिष्यते तच कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसङ्ख्यातप्रदेशात्मकं जीवमावृणुयादिति । तथा यदुक्तं कर्म च शाश्वतं तदपि असमीचीनं, कर्म्मणः शाश्वतत्वे | क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसङ्गात् दृश्यते च ज्ञानादिहानिवृद्धी, तथा यदुक्तं कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाश्वतत्वे नोपपद्यत इति । यच्चोक्तं-भाषणात्पूर्वं भाषा, तद्धेतुत्वात्, तदयुक्तमेव, औपचारिकत्वात् उपचारस्य च तस्त्वतोऽवस्तुखात् किं च-उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्विकी भाषाऽस्तीति सिद्धम्, यच्चोक्तं-भाष्यमाणाऽभाषा, वर्त्तमानसमयस्याच्यावहारिकत्वात्, तदप्यसम्यग् वर्त्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्वेन व्यवहारानङ्गत्वादिति यच्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाग्यमाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात् यश्च प्रतिपाद्यस्याभिधेये
For Pasta Use Only
~ 223~