________________
आगम
(०५)
प्रत
सूत्रांक
[ ५९ ]
दीप
अनुक्रम [८]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [७], मूलं [ ५९ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५]
ऋजुगतिक एवोच्यते तदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानां यद्वहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि तेषूत्पादश्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति । 'जीवा णं भंते !' इत्यादि प्रश्नः, तत्र जीवानामानन्त्यात् प्रतिसमयं विग्रहगतिमतां तन्निषेधवतां च बहूनां भावादाह-'विग्गहगह' इत्यादि । नारकाणां वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपि चैकादीनामपि तेषां भावाद् विग्रहगतिप्रतिषेधव तां च सदैव बहूनां भावात् आह- 'सव्वेषि ताव हो अविग्गहे त्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह- 'एव' मित्यादि जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्तया विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयं तदन्येषु तु त्रयमेवेति, 'तियभंगो' त्ति त्रिकरूपो भङ्गत्रिकभङ्गो, भङ्गत्रयमित्यर्थः ॥ गत्यधिकाराच्चयवनसूत्रम् -
"भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
देवे णं भंते! महिहिए महज्जुईए महब्बले महायसे महासुक्खे महाणुभावे अविवंतियं चयमाणे किंचिवि कालं हिरिवन्तियं दुर्गुछावत्तियं परिसहबत्तियं आहारं नो आहारेह, अहे णं आहारेइ, आहारिजमाणे आहा|रिए परिणामिज्ज़माणे परिणामिए पहीणे य आउट भवइ जत्थ उववज्जइ तमाउयं पडिसंवेएइ, तंजहा- तिरिखजोणियाउयं वा मणुस्साज्यं वा ?, हंता गोयमा ! देवे णं महिद्दीए जाव मणुस्साजयं वा ॥ (सू० ६० ) ॥ 'महिहिए 'ति महर्द्धिको विमानपरिवाराद्यपेक्षया 'महज्जइए त्ति महाद्युतिकः शरीराभरणाद्यपेक्षया 'महम्बले' त्ति महाबलः शारीरप्राणापेक्षया 'महायसे 'ति 'महायशाः' बृहत्प्रख्यातिः 'महेसक्खे'त्ति महेशो-महेश्वर इत्याख्या-अभि धानं यस्यासौ महेशाख्यः 'महासोक्खे'त्ति क्वचित् 'महाणुभावे 'ति 'महानुभावः' विशिष्टवैकियादिकरणाचिन्त्यसामर्थ्यः
For Parts Only
~ 185~