________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४४]
हर्ता उत्पादविरहकाल उक्तः, ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेपाश्चाभाव एवेति, तत्र 'सव्येवि ताव होज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां Mनारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः AN'अहवा इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता षडू भङ्गाः
कार्याः, तथाहि-क्रोधोषयुक्तश्च मानोपयुक्ताश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २, एवं मायया एकत्वबहुत्वाभ्यां दौ, लोभेन च द्वौ, एवमेते द्विकसंयोगे षट् । त्रिकसंयोगे तु द्वादश भवन्ति १२, तथाहि-क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमित्येकः १, मानैकत्वे मायाबहुत्वे च द्वितीयः २, माने बहुवचनं मायायामे| कत्वमिति तृतीयः ३, मानवहुत्वे मायाबहुत्वे च चतुर्थः ४, पुनः क्रोधमानलोभरित्थमेव चत्वारः ४, पुनः क्रोधमाया ला लोभैरिस्थमेव चत्वारः ४, एवमेते द्वादश १२ । चतुष्कसंयोगे त्वष्टी, तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकवIM चनेनैकः, एवमेव लोभे बहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जाती, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, का एवमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव ॥ 'समयाहियाए जहन्नहिईए वट्टमाणा नेरइया किं कोहोवउत्ता' इत्यादि प्रश्नः, इहोत्तरम्-'कोहोवउत्ते य' इत्यादयोऽशीतिभङ्गाः, इह समयाधिकायां यावत्सङ्ख्येयसमयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि, भवन्ति चेदेको वाऽनेको धेति ततः क्रोधादि
दीप अनुक्रम [६१-६२]]
~153~