SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३७] दीप अनुक्रम [४५] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [३], मूलं [३७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ६१ ॥ लिङ्गं साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवस्त्ररूपं लिङ्गं साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तं १, सर्वज्ञानामविरोधिवचनत्वादिति, अत्रापि ऋजुजडवकजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः । तथा प्रवचनमत्रागमः तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथं प्रथमेतर जिनप्रवचने पशयामधर्मप्रतिपादके ? सर्वज्ञानामविरुद्धवचनत्वात्, अत्रापि समाधिः- चतुर्यामोऽपि तत्त्वतः पञ्चयाम एवासौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात्, योषा हि नापरिगृहीता भुज्यते इति न्यायादिति । तथा प्रवचनमधीते वेत्ति या प्रावचनः - कालापेक्षया बह्नागमः पुरुषः, तत्रैकः प्रावचनिक एवं कुरुते अन्यस्त्वेवमिति किमत्र तस्यमिति, समाधिश्चेह चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम् आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति । तथा कल्पो-जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाश्यादिरूपो महाकष्टः कल्पः कर्म्मक्षयाय तदा स्थविरकल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति, इह च समाधिःद्वावपि कर्म्मक्षय हेतू, अवस्थाभेदेन जिनोक्तत्वात्, कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति । तथा मार्ग:- पूर्वपुरुषक्रमागता सामाचारी, तत्र केषाञ्चिद्विश्चैत्यवन्दनानेकविध कायोत्सर्गकरणादिकाऽऽवश्यक सामाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्च - गीतार्थाशठप्रवर्त्तिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात्, आच कांक्षा - मोहनियस्य वेदनं For Park Use Only ~ 136~ १ शतके उद्देशः ३ श्रमणाना काङ्क्षावेदनं सू ३७ ॥ ६१ ॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy