________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१५], ------------------------- ----- मूल [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१५]
पञ्चदश मुहूर्तान् यावचन्द्रेण सह संयोगो येषा तानि पञ्चदशमुहूर्तसंयोगानि, तद्यथा-सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छन्नक्षत्ता पन्नरसमुहुत्तसंजुत्ता ॥१॥' संयुक्तं संयोग इति, तथा 'चेतासोएसु मासेसु'ति, स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजि च मासे पञ्चदशमुहूत्तों दिवसो भवति रात्रिश्च, निश्चयतस्तु मेषसहान्तिदिने तु-15 लासंक्रान्तिदिने चैवं दृश्यमिति । 'पओगे'ति प्रयोजनं प्रयोगः सपरिस्पन्द आत्मनः क्रियापरिणामो व्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते-संयुज्यते सम्बध्यतेऽनेन क्रियापरिणामेन कर्मणा सहात्मेति प्रयोगः, तत्र सत्यार्थालोचननिवन्धनं मनः सत्यमनस्तस्य प्रयोगो-व्यापारः सत्यमनःप्रयोगः, एवं शेषेष्वपि, नवरमौदारिकशरीरकायप्रयोग औ-12 दारिकशरीरमेव पुद्गलस्कन्धसमुदायरूपत्वेनोपचीयमानत्वात् कायस्तस्य प्रयोग इति विग्रहः, अयं च पर्याप्तकस्यैव वेदितव्यः, तथौदारिकमिश्रकायप्रयोगः अयं चापर्याप्तकस्खेति, इह चोत्पत्तिमाश्रित्यौदारिकस्य प्रारब्धस्य प्रधानत्वादीदारिकः कार्मणेन मिश्रः, यदा तु मनुष्यः पञ्चेन्द्रियतिया बादरवायुकायिको वा वैक्रियं करोति तदौदारिकस्य प्रारम्भकत्वेन प्रधानत्वादीदारिको वैक्रियेण मिश्रो याबद्वैक्रियपर्यात्या न पर्याप्तिं गच्छति, एवमाहारकेणाप्यौदारिकस्य मिश्रताऽवसेयेति, तथा वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्य, तथा चैक्रियमिश्रशरीरकायप्रयोगस्तदपर्यासकस्य देवस्य नारकस्य वा कार्मणेनैव लब्धिक्रियपरित्यागे वा औदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तक्रियप्राधान्यादौदारिकेणापि मिश्रतेत्येके, तथा आहारकशरीरकायप्रयोगस्तदभिनिवृत्तौ सत्यां तस्यैव प्रधानत्वात् , सथा आ
प्रत अनुक्रम [३२-३७]
६साला
H
inrayog
~72~