________________
आगम
(०४)
प्रत सूत्रांक
[s]
प्रत
अनुक्रम [११-१३]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
समवाय [९], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंगसूत्र- [०४]
Education!
उपासयिता भवतीति तृतीया ३ नो स्त्रीणामिन्द्रियाणि - नयननाशावंशादीनि मनोहराणि आक्षेपकरत्वात् मनोर माणि रम्यतयाऽऽलोकयिता-द्रष्टा निर्ध्याता - तदेकाग्रचित्ततया द्रष्टेव भवतीति चतुर्थी ४ नो प्रणीतरसभोजीगलत्लेहरस विन्दुकस्य भोजनस्य भोजको भवतीति पञ्चमी ५ नो पानभोजनस्यातिमात्रम् - अतिप्रमाणं यथा भवत्येव । | माहारकः सदा भवतीति षष्ठी ६ नो पूर्वरतं पूर्वक्रीडितमनुस्मर्त्ता भवति रतं मैथुनं क्रीडितं - बीभिः सह तदन्या क्रीडेति सप्तमी, ७ नो शब्दानुपाती नो रूपानुपाती नो गन्धानुपाती नो रसानुपाती नो स्पर्शानुपाती नो लोकानुपाती कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति - नानुसरतीत्यर्थः इत्यष्टमी ८ नो सातसौख्यप्रतिबद्ध| श्चापि भवति सातात् - सातवेदनीयादुदयप्राप्ताद्यत्सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी ९, इदं च व्याख्यानं वाचनाद्वयानुसारेण कृतं, प्रत्येकवाचनयोरेवंविधसूत्रभावादिति, तथा कुशलानुष्ठानं ब्रह्मचर्यं तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिवद्धानीति तथा अभिजिनक्षत्रं साधिकान्नव मुहूतश्चिन्द्रेण सार्द्धं योगं सम्बन्धं योजयति-करोति, सातिरेकत्वं च तेषां चतुर्विंशत्या मुहूर्त्तस्य द्विषष्टिभागानां पटूपिष्टा च द्विषष्टिभागस्य सप्तषष्टिभागानामिति तथा अभिजिदादीनि नव नक्षत्राणि चन्द्रस्योत्तरेण योगं योजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थित चन्द्रेण सह योगमनुभवन्तीति भावः । 'बहुसमरमणिजाओ' इति अत्यन्तसमो बहुसमोऽत एव रमणीयो- रम्यस्तस्माद्भूमिभागान्न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, रुचकापे
For Parts Only
मूलं [९] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~ 42~