________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
C
प्रत सूत्रांक [१५३]
प्रत अनुक्रम [२४७-२५१]
तदत्तरं शेषद्वाराणि च भणद्भिः प्रज्ञापनायाश्चतुर्विंशत्तमं परिचारणापदाख्यं पदमिह भणितव्यमिति, इदं चात्राहा-14 रविचारप्रधानतया आहारपदमुक्तमिति, तत्पुनरेवमर्थतस्तत्र 'आहाराभोगणाइय'त्ति एतस्य विवरण-नारकाणा किमाभोगनिवर्तित आहारोऽनाभोगनिवर्तितो वा ?, उभयथापीति निर्वचनं, एवं सर्वेषां नवरमेकेन्द्रियाणामनाभोगनिवर्तित एवेति, तथा 'पोग्गला नेव जाणंति'त्ति अस्थार्थः-नारका यान् पुद्गलान आहारयन्ति तानवधिनापि न जानन्ति अविषयत्वात्तदवधेस्तेषां, न पश्यन्ति चक्षुषाऽपि लोमाहारत्वात् तेषां, एवमसुरादयस्त्रीन्द्रियान्ताः, केवलं हूँ एकेन्द्रिया अनाभोगाहारत्वावित्रीन्द्रियाश्च मत्यज्ञानित्वान्न जानन्ति चक्षुरिन्द्रियाभावाच्च न पश्यन्तीति, चतुरिन्द्रियास्तु |चक्षुःसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषापि न पश्यन्ति, तथा त एव लोमाहारमाश्रित्य न
जानन्ति न पश्यन्तीति व्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिजानन्ति पश्यन्ति चाहै वधिज्ञानादिषु युक्ताः लोमाहारप्रक्षेपाहाराच, तथाऽन्ये जानन्ति न पश्यन्ति लोमाहारं जानन्त्यवधिना न पश्यन्ति
चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात्पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति, व्यन्तरज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्ते जा-8 नन्ति विशिष्टावधित्वात् पश्यन्ति चक्षुषोऽपि विशिष्टत्वात् , मिध्यादृष्टयस्तु न जानन्ति न पश्यन्ति, प्रत्यक्षपरोक्षज्ञानयोस्तेषामस्पष्टत्वादिति, तथा 'अज्झवसाणे य'त्ति द्वारं, नारकादीनां प्रशस्ताप्रशस्तान्यसंख्येयान्यध्यवसायस्थाना
OCOCCAS
~304~