________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
<--
प्रत सूत्रांक [१५३]
-
'कइविहे'इत्यादि, अनावसरे प्रज्ञापनायास्त्रयविंशत्तमं पदमन्यूनमध्येयमिति, अनन्तरमुपयोगविशेषः क्षायोपशमिको जीवपर्यायः उक्तोऽधुना स एवौदयिको वेदनालक्षणोऽभिधीयते-'सीया' इत्यादि द्वारगाथा, तत्र 'सीया यति चशब्दोऽनुक्तसमुचये तेन त्रिविधा वेदना-शीता उष्णा शीतोष्णा चेति, तत्र शीतामुष्णां च वेदयन्ति नारकाः, शे-13 पास्त्रिविधामपि, ''त्ति उपलक्षणत्वाच्चतुर्विधा वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना नारका-IN घुपपातक्षेत्रसम्बन्धात् क्षेत्रवेदना नारकाद्यायुःकालसम्बन्धात् कालवेदना वेदनीयकम्र्मोदयाद्भाबवेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपि वेदनां वेदयन्तीति, तथा 'सारीर'त्ति त्रिविधा वेदना शारीरी मानसी शारीरमा-13 नसी च, तत्र संक्षिपञ्चेन्द्रियाः सर्वे त्रिविधामपि इतरे तु शारीरीमेवेति, तथा 'साय'त्ति त्रिविधा वेदना-साता असाता 8 सातासाता चेति, तत्र सर्वे जीवाः त्रिविधामपि वेदयन्तीति, 'तह वेयणा भवे दुक्ख'त्ति त्रिविधा वेदना-सुखा दुःखाई सुखदुःखा चेति, तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरं सातासातयोः सुखदुःखयोश्चायं विशेषः-सातासाते क्र-2 मेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे सुखदुःखे तु परेण उदीर्यमाणवेदनीयकर्मानुभवलक्षणे, तथा 'अभुवग-18 मुवक्कमिय'त्ति द्विधा वेदना-आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्यामभ्युपगमतो वेदयन्ति जीया यथा साधवः शिरोलुश्चनब्रह्मचर्यादिकां द्वितीया तु खयमुदीर्णस्योदीरणाकरणेन बोदयमुपनीतस्य वेदनीयस्यानुभवतः, तत्र पञ्चेन्द्रियतिर्यअनुष्या द्विविधामपि शेषास्त्वोपक्रमिकीमेव वेदयन्तीति, तथा 'णीयाए चेव अणियाए'त्ति द्विविधा बेदना,
--2
प्रत अनुक्रम [२४७-२५१]
**
*
~302~