________________
आगम
(०४)
प्रत
सूत्रांक
[१४२]
प्रत
अनुक्रम
[२२३]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [०४] अंगसूत्र- [०४]
Jan Eraton
राजानः अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिका ऋद्धिविशेषा उपासकाना च शीतविरमणगुणप्रत्याख्यान पौषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि -अणुव्रतानि विरमणानि - रागादिविरतयः गुणा-गुणत्रतानि प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधः - अष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्यागः पौषधोपवासः, ततो द्वन्द्वे सत्येतेषां प्रतिपादनताः प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपउपधानानि प्रतीतानि 'पडिमाओ ति एकादश उपासकप्रतिमाः कायोत्सर्गा या उपसर्गा-देवादिकृतोपद्रवाः संलेखनाभक्तपानप्रत्याख्यानानि, पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायातिः पुनर्वोधिलाभोऽन्तक्रिया चाख्यायन्ते पूर्वोक्तमेवेतो विशेषत आह- 'उवास त्यादि, तत्र ऋद्धिविशेषा-अनेक कोटी संख्याद्रव्यादिसम्पद्विशेषाः तथा परिषद:-परिवारविशेषा यथा मातापितृपुत्रादिका अभ्यन्तरपरिषत् दासीदासमित्रादिका वाह्मपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततो बोधिलाभोऽभिगमः- सम्यक्त्वस्य विशुद्धता स्थिरत्वं सम्यक्त्वशुद्धिरेव मुलगूणोत्तरगुणा - अणुव्रतादयः अतिचारास्तेषामेव-वधवन्धादितः खण्डनानि स्थितिविशेषाञ्च - उपासक पर्यायस्य कालमानभेदाश्च बहुविशेषाः प्रतिमाः - प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेव च पालनानि उपसर्गाधिसहनानि निरुपसर्गश्व-उपसर्गाभावश्चेत्यर्थः, तपांसि च विचित्राणि शीलत्रतादयोऽनन्तरोक्तरूपा अपश्चिमाः
उवासगदशा अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Pale Only
मूलं [१४२ ] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~250~
Arary org