SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१४१] प्रत अनुक्रम [२२२] [भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४] श्रीसमवायांगे श्री अभय ० वृचि: ॥११८॥ Jan Eratur | मेघकुमारो भगवता शैलकाचार्यो वा पन्थकसाधुना धीरीकृतः एवं धीरकरणकारणानि तत्राख्यायंते, किंभूतानि तानीत्याह- 'बोधनानुशासनानि' बोधनानि - मार्गभ्रष्टस्य मार्गस्थापनानि अनुशासनानि - दुःस्थस्य सुस्थतासम्पाद नानि अथवा बोधनं-आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानि-संयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः, तथा दृष्टान्तान् ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा 'लोकमुनयः' शुकपरिव्राजकादयो 'यथा' येन प्रकारेण स्थिताः शासने जरामरणनाशनकरे जिनानां सम्बन्धिनीति भावः, तथाऽऽख्यायन्त इति योगः, तथा 'आराहितसञ्जम'त्ति एत एव लौकिकमुनयः संयमं वलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्च सुरलोकं गत्वा चैते सुरलोकप्रतिनिवृत्ता उपयान्ति यथा शाश्वतं सदाभाविनं शिवं अवाधाकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च 'एवमादित्य'त्ति एवमादय आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्थाः - पदार्थाः, 'चित्थरेण य'त्ति विस्तरेण चशब्दात् क्वचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः 'नायाधम्मकहासु ण'मित्यादि कष्ट्य मानिगमनात्, नवरं 'एकूणवीसमज्झयण'ति प्रथमश्रुतस्कन्धे एकोनविंशतिर्द्वितीये च दशेति, तथा 'दस धम्मकहाणं वग्गा' इत्यादी भावनेयं - इहै कोनविंशतिर्ज्ञाताध्ययनानि दान्तिकार्थज्ञापनलक्षणज्ञातप्रतिपादकत्वात्तानि प्रथम तस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्म्मस्य कथा धर्मकथा - आख्यानकानीत्युक्तं भवति, तासां च दश वर्गाः, वर्ग इति समूहः, तत | ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचयः, For Pasta Lise Only मूलं [१४१] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ~ 247 ~ | १४१ ज्ञा ताधर्मकथाधिकारः ॥११८॥ nary or
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy