________________
आगम
(०४)
प्रत सूत्रांक
[३०]
प्रत
अनुक्रम [६४-९९]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
समवाय [३०], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
Eratun
हेयोपादेयवस्तुस्तोमप्रकाशकत्वात् तं अत एव त्राणं- आपद्रक्षणं प्राणिनामेतादृशं यादृशा गणधरादयो भवन्ति, 'नवरं' प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशं १७ । उपस्थितं प्रव्रज्यायां प्रवित्रजिषुमित्यर्थः, 'प्रतिविरतं' सावद्ययोगेभ्यो निवृत्तं प्रत्रजितमेवेत्यर्थः 'संयतं' साधुं 'सुतपखिनं' तपांसि कृतवन्तं शोभनं वा तपः श्रितं - आश्रितं कचित् 'जे भिक्खु जगजीवणं'ति पाठः, तत्र जगन्ति - जंगमानि अहिंसकत्वेन जीवयतीति जगज्जीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्यपक्रम्य वलादित्यर्थः, धर्मात् श्रुतचारित्रलक्षणाशयति यः स महामोहं प्रकरोतीति अष्टादशं १८ । यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयत्वेन वा जिनानां अर्हतां वरदर्शिनां क्षायिकदर्शनत्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः 'अवर्णः' अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्वात्, उक्तं च- "अज्जवि धावह नाणं अजवि य अणंतओ अटोगोवि। अजवि न कोई विउ पावन्ति सव्वन्नुयं जीवो ॥ १ ॥ अह पावति तो संतो होइ अलोओ न चेयमिति" ति [ अद्यापि धावति ज्ञानं अद्याप्यनन्तोऽलोकोऽपि । अद्यापि न कोऽपि व्यूहं प्राप्नोति सर्वज्ञतां जीवः ॥ १ ॥ अथ प्राप्नोति तदा सान्तोऽलोको भवेत् न चेदमिष्टमिति ] अदूषणं चैतद्, उत्पत्तिसमय एव केवलज्ञानं युगपलोकालोको प्रकाशयदुपजायते, यथाऽपवरकान्तर्वर्त्तिदीपकलिका अपवरक मध्यप्रकाशस्वरूपेत्यभ्युपगमादिति, वालः- अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं १९ । 'नैया
मोहनीय स्थानानाम् त्रिंशत् भेदानाम् व्याख्या:
For Park Use Only
मूलं [३०] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~118~