________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४४०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४४०
दीप
नैव सभ्यगू-यौचित्यं प्रयोक्ता-तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुविनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपकामति कालिकाचार्यवदित्येकं, तथा गणविषये यथारलाधिकतया-यथाज्येष्ठ कृतिकर्म तथा वैनयिक-विनयं 'नो' नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात् , यतः आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्तव्य एवेति द्वितीयं, तथा असौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुदेशकाध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि काले २-यथावसरे नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति, 'गणे'त्ति इह सम्बध्यते, तेन गणे-गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्य वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयं, तथा असौ गणे वर्तमानः 'सगणियाए'त्ति स्वगणसम्बन्धियां 'परगणियाए'त्ति परगणसत्कायां निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्यादू बहिर्लेश्या-अन्तःकरणं यस्यासी बहिलेश्यः, आसक्तो भवतीत्यर्थः, एवं गणादपक्रामतीति, न चेदमधिकगुणत्वेन अस्यासम्भाव्यं, यतः पठ्यते-'कम्माई नूणं घणचिकणाई गरुयाई बज्जसाराई । नाणहयपि पुरिसं पंथाओ उप्पहं निति ॥१॥"[गुरुकाणि वज्रसाराणि चिक्कणानि कर्माणि घनानि ज्ञानाढ्यमपि पुरुष नूनं पथ उत्पथं नयंति ॥१॥] इति चतुर्थं, तथा मित्रज्ञातिगणो वा -सुहृत्स्वजनवर्गों वा 'से' तस्याचार्यादेः कुतोऽपि कारणाद् गणादपकामेदतस्तेषां सुहत्स्वजनानां सहायर्थ गणादपकमणं प्रज्ञप्तं, तत्र सङ्घहस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुषष्टम्भ इति पञ्चमं । अनन्तरमाचार्यस्य गणापक्रमण-15 मुक्त, स च ऋद्धिमन्मनुष्यविशेष इत्यधिकारादू ऋद्धिमन्मनुष्यविशेषानाह-पंचविहे'त्यादि कण्ठ्यं, नवरं ऋद्धिः
अनुक्रम [४७८]
CAMER
स्था० ५६
आचार्यस्य गण-अपक्रमणस्य कारणा:
~96~