________________
आगम
(०३)
प्रत सूत्रांक
[ ४१३]
दीप
अनुक्रम [४५१]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
मूलं [४१३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [ ५ ], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
त्यादि विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता वा महार्णवा महानयो- गुरुनिम्नगाः अन्तः - मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा त्रीन्वारान् उत्तरीतुं लङ्घयितुं बाहुजङ्घादिना सन्तरीतुं साङ्गत्येन नावादिनेत्यर्थः लङ्घयितुमेव, सकृद्वोत्तरी तुमनेकशः सन्तरीतुमिति, अकल्प्यता चात्मसंयमोपघातसम्भवात् शवलचारित्रभावाद्, यत आह- “मासम्भंतर तिन्नि दगलेवा उ करेमाणे "त्ति [ मासान्तस्त्रीणि दकलेपनानि नाभिप्रमाणजलोत्तरणानि कुर्वन् ] [ उदकलेपो - नाभिप्रमाणजलावतरणमिति > इह सूत्रे कल्पभाष्यगाथा - "इमउत्ति सुतउत्ता १ उद्दिट्ठ नईओ २ गणिय पंचैत्र ३ गंगादि वंजियाओ ४ बह्रदय महवाओ य ५ ॥ १ ॥ पंचहं गहणेणं सेसावि उ सूइया महासलिला ॥” इति [ इमां इति सूत्रोक्ता उद्दिष्टा नद्यः गणिताः पंचैव व्यंजिताः गंगादिकाः बहूदका महार्णवाः ॥ १ पंचानां ग्रहणेन शेषा अपि महासलिलाः सूचिताः] प्रत्यपायाश्चेह“ओहारमगराइया घोरा तत्थ उ सावया । सरीरोवाहिमाईया, जावातेणा व कत्थइ ॥ १ ॥” इति [अपहारः (मत्स्यः ) मकरादिका घोरास्तत्र श्वापदाः एवं शरीरोपधिस्तेना वा नौस्तेना वा कुत्रचित् ॥ १ ॥ ] अपवादमाह - 'पंचे'त्यादि, भये - राजप्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे वा भिक्षाऽभावे सति २, 'पण्यहेज्ज'त्ति प्रव्यथतेबाघते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् कश्चित् प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'दओघंसि'त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता व आटोपेनेति शेषः ४, 'अणारिएसुति विभक्तिव्यत्ययादनार्यैः- म्लेच्छादिभिर्जीवित चारित्रापहारिभिरभिभूतानामिति शेषः, म्लेच्छेषु वा आगच्छतिस्वति
For Personal & Pre Only
~ 50~
nary op