SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७७६] दीप अनुक्रम [१०००] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ५२२ ॥ [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ७७६ ] स्थान [१०], उद्देशक [-], अयमकोपस्यापि वीतरागस्य प्रभावो यत्यरतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह — 'जहा वा' यथैव गोशालकस्य-भगवच्छिष्याभासस्य मङ्गल्यभिधानमपुत्रस्य, मङ्खश्च चित्रफलकप्रधानो भिक्षुकविशेषः, 'तवेतेए'ति तपोजनितत्वात्तपः किं तत् ? - तेजस्तेजोलेश्येति, तत्र किलेकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रीषीत् यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ - महावीरो गोशालकश्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांश्चोवाच-यथा अयं शरवणग्रामे गोबहुलब्राह्मणगोशालायां जातो मलिनान्नो मङ्गस्य सुभद्राभिधानतद्भार्यायाश्च पुत्रः पडू वर्षाणि यावच्छास्थेन मया सार्द्ध विहृतोऽस्मत एव बहुश्रुतीभूत इति नायें जिनो न च सर्वशः, इदं च भगवद्वचनमनुश्रुत्य बहुजनो नगर्याः त्रिकचतुष्कादिषु परस्परस्य कथयामास-गोशालको मलिपुत्रो न जिनो न सर्वज्ञः, इदं च ठोकवचनमनुश्रुत्य गोशालकः कुपितः आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत् तमवादीच्च भो आनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोऽर्थार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शालवृक्षस्यान्तरद्राक्षुः क्षिप्रं चैकं विचिक्षिपुस्ततोऽतिविपुलम मलजलमवापुः, तत्पयो यावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः, अपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे त्रिभिदुः, तयोः क्रमेण सुवर्ण च रत्नानि च समासादयामासुः पुनस्तथैव चतुर्थ भिन्दानाः घोरविषमतिकायमअनपुञ्जतेजसमति चञ्चलजिह्वायुगलमनाकलितकोपप्रसर महीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य Far Portal & Private On १० स्थाना. उद्देशः श् मूलादीनि श्रेणयः ग्रैवेयकं तेजोलेश्याः सू० ७७३७६७ ~ 477 ~ ॥ परर ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy