________________
आगम
(०३)
प्रत
सूत्रांक
[७७६]
दीप
अनुक्रम [१०००]
Educat
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१०], उद्देशक [-] मूलं [ ७७६ ]
इति 'भासं कुञ्ज'त्ति प्रसिद्धमित्येकं शेषाणि नवापि सुगमानि, नवरं 'से य अवासाइयत्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयमुभावपि परिकुपित 'ते दुइओ' सि तौ द्वौ मुनिदेवी 'पडिन'त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञो-कृतप्रतिज्ञो हन्तव्योऽयमित्यभ्युपगतावितियावदिति तृतीयं चतुर्थे श्रमणस्तेजोनिसर्ग कुर्यात्, पञ्चमे देवः पठे उभाविति, केवलमयं विशेषः 'तो' ति उपसर्गकारिणि 'स्फोटा:' स्फोटकाः समुत्पद्येरन् अग्निदग्धे इव, ते च स्फोटकाः भिद्यन्ते - स्फुटम्ति, ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणं सह तेजसा तेजोलेश्यावन्तमपि श्रमणदेवतेज सोर्बलवत्त्वात् तेजसो पहननीयस्याद् भस्म कुर्युःनिपातयेयुरिति, सप्तमाष्टमनवमेध्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च ततस्तत्र पुलाः- पुलाफिका लघुतरस्फोटिकाः सम्मूर्च्छन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सदैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधुदेव कोपाश्रयाणि दशमं तु वीतरागाश्रयं तत्र 'अचासाएमाणे'त्ति उपसर्ग कुर्वन् गोशालकवतेजो निसृजेत्, 'से य तस्थ'ति तच्च तेजस्तत्र श्रमणे निसृष्टं महावीर इव नो क्रमते ईषत् नो प्रक्रमते प्रकर्षेण न प्रभवतीत्यर्थः केवलं 'अंचिअंचियं'ति उत्पतनिपतां पार्श्वतः करोति, ततश्चादक्षिणतः पार्श्वात् प्रदक्षिणा पार्श्वभ्रमणमादक्षिणप्रदक्षिणा तां करोति, ततचोर्द्धम् उपरि दिशि 'बेहासं'ति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च 'से'चि तसेजः ततः श्रमणशरीरसन्निधेस्तन्माहात्म्य प्रतिहतं सत् प्रतिनिवर्त्तते प्रतिनिवृत्त्य च तदेव शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतं तमनुदहन - निसर्गानन्तरमुपतापयन् किंभूतं शरीरकं ? - सह तेजसा वर्त्तमानं तेजोलब्धिमत् भस्म कुर्यादिति,
Far Fara & Pras
anthray.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~476~