________________
आगम
(०३)
प्रत
सूत्रांक
[७७६]
दीप
अनुक्रम
[१०००]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ५२१ ॥
Educato
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [ ७७६ ]
स्थान [१०],
णयः, दीर्घवैताळ्या हि पञ्चविंशतिर्योजनान्युच्चैस्त्वेन पश्चाशश्च मूलविष्कम्भेण तत्र दश योजनानि धरणीतलादतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरवस्तु पष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत्पञ्चपञ्चाशदिति । तथा विद्याधर श्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः- आज्ञा तथा चरन्तीत्याभियोगिका देवाः, शकादिसम्बन्धिनां लोकपालानां सोमयमवरुणवैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । आभियोगिक श्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह - 'गेवेज्जे 'त्यादि कण्ठ्यं, नवरं प्राग्देवानामावासा उक्ताः, देवाश्व महर्द्धिका भवन्त्यतो देवानां मुनीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह – 'दसही' त्यादि, दशभिः स्थानैः प्रकारैः सह सार्द्ध | तेजसा तेजोलेश्यया वर्तमानमनायें 'भास'न्ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रवण इति गम्यते, तद्यथा — ' के 'ति कश्चिदनार्यकर्म्मकारी पापात्मा तथारूपं तेजोलब्धिप्राप्तं श्रमणं - तपोयुक्तं माहनं मा हनमा विनाशय इत्येवंप्ररूपणाकारिणं वाशब्दौ विशेषणसमुच्चयार्थी अत्याशातयेद् - आत्यन्तिकीमाशातनां तस्य कुर्यात्, 'से य'त्ति स च श्रमणोऽत्याशातितः- उपसर्गितः परिकुपितः सर्वथा क्रुद्धः सन् 'तस्स'ति उपसर्गकर्तुरुपरि तेजः- तेजोलेश्यारूपं निसृजेत् क्षिपेत् 'से'त्ति 'स' श्रमणः तमित्युपसर्गकारिणं परितापयति- पीडयति तं परिताप्य 'सामेवे 'ति तमेव तेजसा परितापितं दीर्घत्वं प्राकृतत्वात् सहापेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस
|
Far Far & Fran
१० स्थाना.
उद्देशः श् मूलादीनि श्रेणयः ग्रैवेयकं तेजोलेश्याः
सू० ७७३१७७६
~475~
॥ ५२१ ॥
antray.com
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते