SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७५४ -७५६] + गाथा: दीप अनुक्रम [९६६ -९७६] [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५६ ] स्थान [१०], उद्देशक [-], | जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्कर करणेनोपकारोऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमं, तथा बहुपुत्रिकादेवी प्रतिवद्धं सैवाध्ययनमुच्यते, तथाहि| राजगृहे महावीरवन्दनार्थं सौधर्मापुत्रिकाभिधाना देवी समवततार, बन्दित्वा च प्रतिजगाम, केयमिति पृष्ठे गौतमेन भगवानवादीत्-वाराणस्यां नगर्यो भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव सा च वन्ध्या | पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ स च धर्ममचकथत् प्राब्राजीच्च, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तनापरायणा सातिचारा मृत्त्वा सौधर्म्ममगमत्, ततश्युता च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च सा षोडशभिर्वर्षैः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्म्म कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रत्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयो त्पद्य महाविदेहे सेत्स्यतीति । तथा स्थविरः- सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव तदध्ययनानां पुनरयमर्थः - 'खुड्डिए'त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थे तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिकाविमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य - आचारादेश्चूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुकार्थसङ्ग्राहिका चूलिका, 'वग्गचूलिय'त्ति इह च वर्गः- अध्ययनादिसमूहो, यथा अन्तकृदशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका, 'विवाहचूलिय'त्ति व्याख्या -भगवती तस्याधूलिका Education intimational Far Far & Fran पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~458~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy